________________
अंतरंगकथा
१५३
गत्वा विचज्ञणायाऽमुं, वृत्तान्तं तौ शशंसत । युक्तिपूर्वं कृती सोऽपि, रसनायामवर्तत ॥१॥ सत्यवाचि नियुङ्क्तेता, लाम्पट्याच्च निषेधति । स्वप्रतिज्ञा परित्यागत्रस्ततां न विमुञ्चति ॥२॥ रसना शुद्धिमावेद्य, कृतिना भणितोऽपि हि । महापद्मकुमारोऽपि, मूढस्तत्वं न बुद्धते ॥३॥ मद्यपानपलास्वाद प्रमखैालयन्त्रयम् । असारघोरसंसारे, सारं तामेव मन्यते ॥४॥ राज्ञादत्तैः पुरा देशैर्बहुभिर्न च तृप्यति । रागकेसरिपुत्रस्य, लोभस्य वशगः सदा ॥५॥ चिन्तयत्येष दृष्टात्मा, महालोभवशंवदः । नूनं न मह्यं राजाऽयं, जीवन् राज्यं प्रदास्यति ॥६॥ कथङ्कारं च पापात्मा, घात्योऽसौ नृपतिर्मया । अथ तस्स विवेशाङ्गे माया लोभकनीयसी ॥७॥ सा तमाह किमत्रापि, कार्ये मूढवदीक्षसे ? | हंता ! नाट्यचाटूनि, भक्तिं ख्यापयराजनि ॥८॥ ततो मम प्रभावेण, विस्त्रब्धे कुरु वांछितम् । न विना हन्त ! विश्वस्तं, वंचितं कोऽपि शक्यते ॥९॥ सैष इत्थं तया प्रोक्तः क्रमात् कृत्वा च कैतवम् । राजानं तन्मय चक्रे, छद्मना को न वंच्यते ? ॥१०॥ लब्ध्वाऽवकाशमायाते, वशीकृत्य स राजकम् ॥ धृत्वा विक्षेपराजानं, पितरं दारुपंजरे ॥११॥ कृत्वा राज्यं निजायत्तं, हृष्टश्चेतस्य चिन्तयत् । अहो ! प्रभावो मायायाः अहो ! लोभः सुखाकरः ॥१२॥ लब्ध्वाऽवकाशं लोभेन, रहस्येषोऽभ्यधीयत । त्वत्तो राज्य ग्रहीतारस्तवेव तव सूनवः ॥१३॥
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org