________________
अंतरंगकथा
१५१ विमर्शः प्राह - तर्हि तत् कटकं साम्प्रतं कत्र वर्तते ? 'मिथ्याभिमानेन' चिन्तितम्- नूनं हेरिकावेतौ अतएव समूला सर्वां शुद्धिं पृच्छतः । ततः प्रोक्तम्साम्प्रतं देवः ससैन्यस्तामसचित्ते नगरे श्रूयते । अथ तथा आपृच्छ्य तौ भोजनादि तत्र कृत्वा पनरग्रे प्रतस्थाते । गच्छंश्च विमर्श : प्रकर्ष प्रत्याह - वत्स ! लब्धा कियती तावद् रसनाया' मूलशुद्धिः । परिपूर्णा पुनविर्षयाभिलाषं दृष्ट्वा ज्ञास्यामः । क्रमेण प्राप्तौ तामसचित्ते । तत्र ताभ्यां प्रवेश कर्वाणाभ्यां तत्रैव प्रविशन् दृष्टो दैन्याऽक्रन्दरोदनादि' कतिपयपुरुषपरिवारितो धूमसमूहसमानदेहः शोकनामा प्रतिजागरुकः पाडीरिकः । स पृष्टस्ताभ्याम् - "भद्र ! कोऽत्र राजा ? तेनाभिहितम् महामोहनृपतेस्तनयो रागकेसरिणोऽनुजः सुगृहीतनामधेयो द्वेषगजेन्द्रो नाम, सोऽपि सन्तोषस्योपरि सबलवाहनश्चलितो वर्तते, साम्प्रतं पुनस्तत्, कटकं 'चित्तवृत्ति महाटव्या प्रमत्तता नद्यास्तीरे सर्वमप्यायासितमास्ते, दुरात्मनः सन्तोषस्यात्र नगरे घाटी पातितां । श्रुत्वा स्वयं देवेनाहं पुनरत्र विशुद्धिकरणाय प्रेरितोऽस्मि। अथ तौ तदपि परं सकलमपि निरीक्ष्य प्राप्तौ क्रमेण चित्तवृत्ति महाटव्यां । दृष्टा तत्र ताभ्यां निद्रादिपयःपूरदुष्प्रेक्षा अपर पारावारगामिनी प्रमत्तता' नाम महावाहिनी । अवलोकितं तस्याः पलिने समावासितं कृतमहाकलकलं हेति निवहदूरालोकं सङ्ख्यातीतसुभटकोटिसङ्कीर्ण मोहराजस्य सैन्यम् । निरूपितस्तत्र नभोभागमवरुन्धानः त्रिलोकीलोकसन्त्रा समादधानो दूरादेव विलोक्यमानश्चित्तविक्षेपो नाम महामण्डपः । प्रत्यक्षीकृतस्तेन महामंडलेश्वरनिकरपरिवारितस्तृष्णा वेदिकास्थितविपर्ययाभिधानसिंहासनाध्यासीनो महाभैरवीमविद्या नाम गात्रयष्टिं दधानः, कदाग्रहनिवहरूपकचनिचयनिर्मितं कूर्च महर्महुः परामृशन्, रजस्तमोरूपाभ्यां नयनाभ्यां जगत्त्रयमपि कटाक्षयन्, तमालतमस्तोमश्यामच्छायकायो, ममेत्यध्यवसायात्मा, निर्जितसकलसुराअसुरेन्द्रः श्रीमन्महामोहनरेन्द्रः । तं दृष्ट्वा विमर्शप्रकर्षावपि क्षभिताविव दूरे तस्थिवांसौ, न पनरन्तरास्थानमण्डपमविक्षाताम् । प्रकर्षः प्राह - माम ! मम कथय प्रत्येकमेतेषां महामोहमण्डलेश्वराणां स्वरूपम् ।
अथ विमर्शोऽपि विमृश्य प्राह - आयुष्मन् ! इयं तावन्मोहराजस्य वामपार्वे निषण्णा कुट्टिनी समानस्थूलतरशरीरा महामूढता नाम पट्टदेवी । अयं . पुनरस्य राज्ञः सर्वव्यापाराधिकारी निकटस्थित एवमिथ्याभिनिवेशसिंहासणासीनो
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org