________________
१५०
सिरिपउमप्पहसामिचरिय
विचक्षणः प्राह- एकेन संवत्सरेण । विमर्शः प्राह-तर्हि बहिरङ्गान्तरनगरेषु सर्वत्र तस्या मूलसद्धिं गृहीत्वा समागमिष्यामि । एवमस्त' इति वदता विचक्षणेन विमर्शः प्रेषयांचने । अथ प्रकर्षः प्राह - तात मामेन सहाहमपि गमिष्यामि, अहं हि विमर्श विना क्षणमपि स्थातुं न शक्नोमि । तस्याऽऽग्रहं विज्ञाय सोऽपि विचक्षणेन सहैव प्रेषितः । अथ तौ भागिनेय -मातुलौ चम्पा-श्रावस्ती-विनीताराजगृहादिषु बहिरङ्गनगरेषु सर्वेषु षण्मासावधि भ्रान्त्वा तस्याः शुद्धिमलभमानौ प्रविष्टावन्तरङ्गनगरेष । गतौ क्रमेण राजसचित्तं नाम नगरम् । तच्छून्यप्रायमालोक्य मिथ्याभिमाननामानं सेल्लहस्तं प्रपच्छतुः । महाभाग ! केन हेतुना शून्यमिदमालोक्यते ? स प्राह - द्वीपजातौ युवाम् । यत् एतदपि पर्यनुयुञ्जीयाथाम् । तावाहतुः - महात्मन्। पथिकावावां, तद् भवता न कोपः कार्यः । तर्हि श्रोतव्यं भवद्भ्याम्
__ अस्ति अस्य नगरस्य सगृहीत नामधेयो लीलानिर्जितसकलसराधिपतिः पतिर्देवो रागकेसरी नाम । स कदाचिन्निजममात्यं विषयाभिलाषमवादीत् - महामात्य ! तथा कुरु यथा जगदेतन् ममैवाज्ञा शिरसि धारयति, स्वामिनमन्यं पनर्न चेतसा चिन्तयति । मन्त्री प्राह - स्वामिन् ! एतदेव कतिपय दिनमध्ये विधेयम्, अत्रार्थे देवेन न चेतसि चिन्ता विधानीया - इत्यभिधाय राजसमक्षमेव निजापत्यानि निजप्रबलपवनान्दोलितकल्लोललोलानि पञ्च स्पर्शन - रसन - घ्राण - चक्षुः श्रोत्राणि समादिशति स्म । निर्जितानि तानि जितं जगत् तैः स्तोक दिवसैः परं साम्प्रतमेतत् कस्यचिन् मुखेन श्रुतं राजमहत्तमाभ्याम्, यदुततानि यष्मदीयमानुषाणि पराभूय दुरात्मना सन्तोषेण नीताः केचन पुरुषा मुक्तिमहानगरीम् । ततो राजा क्रोधाध्मात चेताः प्रयाणभेरी भाङ्कारपूर्वकं यावद् चलत् तावद् विषयव्यासङ्ग नामा दूतेन समागत्य विज्ञपयाञ्चक्रे – देव ! कर्मपरिणाम राजा देशतः सन्तोषनिग्रहाय महतासैन्यसम्भारेण देवो महामोहराजश्चलितो वर्तते, तद्भवभ्दिः तत्र कटके स्वयं समागन्तव्यमिति । राजा चिन्तितवान्- वयमग्रेऽपि सामग्र्या चलिताः । ततो मोहराजादेशोऽपि तादृश एव, तदिदं जातं उन्माथिता च बाला मयूरेणाऽपि लपितम् इति । ततो रागकेसरी विषयाभिलाषादिपरिवारसहितः प्रस्थितो विजययात्रायाम् अतः इदं नगरं शून्यमिति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org