________________
अंतरंगकथा प्रविशन्तौ सरलतरलसर्वाङ्गं नवतारुण्यपण्यगात्रां कन्यामेका ददृशतः । तां दष्टवा जडप्रकृतिर्महापद्मो नितान्तं हर्षमुद्वहमानो विचक्षणेण तत्ववेदिना बाहुना धृत्वा स्थानान्तरं निन्ये । अथ तस्याश्चेटी तौ गच्छन्तावलोक्य पूत्कारमुच्चैस्तराञ्चक्रे - हा ! हतास्मि हा ! हतास्मि, म्रियते मदीया स्वामिनी निर्नाथा शरणरहितेति । तच्छ्रुत्वा महापद्मः सर्वं सत्यमेतदिति मन्वानः प्रत्यावर्तत । तदनुरोधाद्विचक्षणोऽपि । तयोर्दर्शनमात्रेणैव चैतन्यमवाप्य सा कुमारयोरासनमदापयत् । ताभ्यां उपविष्टाभ्यां तस्याः स्वरूपं पृष्टा चेटी प्रोवाच -
हे नाथ ! यस्य गेहस्था, ममेयं स्वामिनी स्वयम् । स एवासारसंसारफलं प्राप्रोति तत्वतः ॥१॥ या गृहिताभिधानेयं, रसना भुविविश्रुता ।
अहं तु लोलता नाम, तस्या दासी प्रकीर्तिता ॥२॥ इत्यादि कथिते प्रमदितचित्तो महापद्मकमारस्तां स चेटिकां स्वगृहे निनाय । विचक्षणोऽपि जाननपि तत्वं मित्रोपरोधात् तां वदनकोटरगतामेव मानयामास । स्वगृहप्राप्तश्च शुभोदयायराज्ञे तस्याः प्राप्ति विज्ञापयामास । अथ राजा विमर्श - बुद्धिप्रकर्षादिकं कुटुम्बं मीलयित्वा विचक्षणं प्रत्याह -
नारी सर्वाऽपि हे वत्स ! प्रकृत्या वायुचञ्चला । करण्डीकेव कौटिल्यकैतवादिफणा भृताम् ॥१॥ ऐन्द्रजालिकविद्यैव, दृष्टिबन्धविधायिनी । दुर्गाह्या सर्वथा चेयमादर्शगतमूर्तिवत् ॥२॥ सत्य-शौच-विवेकादि, यद्भुक्तं चारुभोजनम् ।।
भुज्यमाना झटित्येषा, तत् क्षुद्रा वामयत्पलम् ॥३॥ यस्मात् वत्स ! कुल-शीलादिकमन्यस्या अपि परीक्षणीयम् । विशेषतः पुनरस्या रसनायाः । स प्राह - तात ! एवमस्तु, कः पुनरस्या मूलशुद्धिगवेषको भविष्यति ? । वत्स ! तव श्वश्वर्यो विमर्श एवात्र कर्मणि प्रगल्भते । ततो विमर्शेनोक्तम्- ममादेशः प्रमाणम्, परं मया कियता कालेन निर्वर्तनीयम् ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org