________________
अंतरंगकथा
१४७
ब्रवाणे यदा राजा दूरे न भवति तदा वैश्वानररूप एव सम्पन्न एकैनैव निस्त्रिंश प्रहारेण तौ दूत-राजानौ चण्डचण्डालादप्यधिककर्मा निजघान । अथ तदसम्भाव्यं कुमारकर्मावलोक्य सकलमास्थानं चुक्षोभ । समजनिष्टसकलेऽपि तत्र नगरे महान् कोलाहलः । तं च तुमुलमाकर्ण्य कुमारजननी नन्दादेवी - वत्स ! किमिदं भवता म्लेच्छरप्य भाषणीयमश्रोतव्यमचिन्तनीयं कर्मसमाचरितम्? निवर्तस्व, करवालं प्रत्याकारे निक्षिपस्व, कुरुष्व जननी जल्पितमिति जल्पन्ती कुमारपार्श्वमगमत् । ___ अथ वैश्वानरेणाभिहितः कुमारः । पश्य मदीयां शक्तिं यदेकेनैव निस्त्रिंश प्रहारेण द्वावपि दूत-राजानावुपसंहृतौ भवता; एतामपि पातकिनी विब्रुवाणां मास्म तितिक्षेथाः, या किल भवन्तमपि तेजस्विचकवर्तिनं पापकर्माणमभिधत्ते । इत्यात्रद्यभिदधता तेन पापमित्रेण पनस्तरामाविष्टो मत्कलकन्तलकलापः प्रत्यक्षमहापिशाचस्तस्या अपि नलिनीनाललीलायितेनैव निस्त्रिंशेन शिरो लुलाव । अथानिलसहितमिवदावानलं तमसाध्यमालोक्य सम्भूय सर्वेऽपि सामन्तादयो राजलोका यष्टि-मुष्टि-लेष्टु-लगुड-पाष्णिप्रमुखैस्तं कुट्टयित्वा जर्जरप्रायं कृत्वा बबन्धुर्महता प्रबन्धेनारारट्यमानं मुखे धूली प्रक्षिप्य महान्धकारे कस्मिंश्चिदपवरके कथं कथमपि कपाटसम्पुटं पिधाय धारयामासुः । अथ सहस्रदीधितावस्तमुपेयुषि अस्तोकशोकान्धकारग्रस्ते च सर्वस्मिन्नपि पुरी लोके कृते च दूतराजराज्ञीनामौद्ध्व देहिके कर्मणि विलप्य विलप्य विश्रान्ते च सकल शद्धान्ते प्राप्ते च निशीथसमये स दुरात्मा तेनैव पापमित्रेणं सह पर्यालोच्य बन्धप्रबन्धं त्रोटयित्वा कपाटसम्पुटं शनैरुद्घाट्य पुरलोकं प्रतिज्वलित इव प्रतिगृहं प्रतिपाटकं वहिं प्रक्षिप्य कृतकृत्य इव बाणासण-तूणाहस्तो नगरान्निरगच्छत् । गच्छंश्च कियता कालेन कुशस्थलनामानं ग्रामं सम्प्राप्तः। तत् परिसर एव तृषार्तो जलपानार्थमेकमगा धमतुच्छजलसम्भारपूर्ण पद्मसरः समगच्छत । तत्र नवयौवनमनोहरां स्वेच्छया सरः पयसि सानमातन्वती चण्डालपत्नी ददर्श ।।
अत्रान्तरे स्पर्शननामा तस्य प्रियसहृत् तं प्रति सादरमवादीत् - कुमार ! भवता परममित्रेण मम विषयी कृतानि सर्वासामपि राजन्य-ब्राह्मणादिवर्णोभ्दवानां सीमन्तिनीना मङ्गस्पर्शनानि, एतस्यास्तु न जाने कीदृशामङ्गं भविष्यति ? तद्
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org