________________
अतरगकथा
१४५
अन्यदा ताभ्यां निजमित्राभ्यां सह स्वदेह नाम काननमगात् । स तत्र तदुच्चय नाम्नि वाल्मीके स्थितं पाशहस्तं मरणार्थमभ्युद्यतं पुरुषमेकमद्राक्षीत् स तस्य पश्यतो द्वय॑मूर्धाभिधानशाखायां पाशमुद्बध्य सहसाऽऽत्मानं मुमोच । मा साहसम्' इति जल्पता तेन तस्य पाशश्चिच्छिदे । स धरणीतललुलितः कथं कथमपि मूच्र्छा विहाय 'महाभाग ! किमर्थं मम पाशच्छिन्नो भवता ? इति वदन् पुनः पाशं ग्रहीतुमिच्छति । कुमारस्तमप्राक्षीत्-भद्र ! कथय किमर्थं भवता स्वात्मघातपातकमाद्रियते ? । ___स प्राह - श्रुणु यदि भवतः कौतुकातिरेकः, आसीन् मम शरीरसर्वस्वमिव जीवितव्यमिव भवजन्तुर्नाम मित्रम्, स प्रतिदिनं मामुपलालयति पृच्छति च - भद्र ! स्पर्शन ! यत् तुभ्यं रोचते तदेवमया विधेयम्, अन्यदा सुसमय नामा पुरुषेण विप्रतारितो विषकन्दलमिव करालधारालकरवालमिव मामदर्शत् । शनैः शनैः तस्य ससमयवचनैर्मम प्रतिकूलमपि कचोत्पाटन-भूमिशयनातपसेवनादिकं निर्मिमीते स्म । मया चिन्तितम् - त्यक्तस्तावदहमनेन सहृदा तथापि आमरणान्तविश्रान्तप्रणयानि सतां चेतांसि भवन्ति' इति विमृश्य स्थितोऽहं तमेवानुवर्तमानस्तटस्थ इव । कालान्तरे सर्वथा मामपरित्यजन्तं विचिन्त्य कृतघ्र इव परावर्तित इव न मया तव प्रयोजनम्, परिहरस्व मत्समीपम्' इत्यादि सपरुषमभिदधानो मद्गोचरायां निर्वृति नगर्यां गतवान् । अतोऽहं स्वमित्रविरहितोऽशरण इव निर्गतिक इव सर्वथा धन्यास्ते क्षणमात्रमपि ये मित्रविरहे न जीवन्ति इति धिया मरणमप्यङ्गीकरोमि स्म, मञ्च मां येन मित्रविरहदुःखान्तं करोमीति । अथ कुमारस्तद्वचनैरावर्जितचित्तः समुल्ललाप - भद्र स्पर्शन ! न कृतं तेन युक्तं यद् भवानपि निष्कृत्रिमप्रेमरम्यो वयस्यस्तज्यते, तदहमेव साम्प्रतं तस्मादप्यधिको भवतः प्रियसह्यद् भविष्यामि इति वदत एव योगशक्त्या स्पर्शनस्तस्य देहे प्रविवेश । तस्य तेन सह मैत्री भृशमभिनन्दिता वैश्वानरेण निन्दिता पुण्योदयेन । निजमन्दिरमायातस्तु कुमारस्तं सततं सुरतमृदुमनोज्ञतूलिकावालिका स्पर्शादिना पुनस्तरां सादरम्पलालयाम्बभूव । गलिते च गणरात्रे कश्चिद् दूरदेशान्तरायातो दूतः पृथिवीपतिं विज्ञपयामास । देव ! कलिङ्गाधिपतेर्विक्रमसेन महाराजस्य कन्यका
१० Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org