________________
१४४
सिरिपउमप्पहसामिचरियं
निष्प्रकम्पता कुक्षीसरसीराजहंसी क्षान्तिर्नाम कन्यका, यां रमणीयरमणीचूलामणिमालोक्य महामुनयोऽपि स्पृहयाञ्चक्रुः यस्याः संसर्गतो भिक्षाचरोऽपि सकलसुरासुर-नरेन्द्ररारा धयाञ्चक्रे, यस्या गणग्राममभिराममपवर्णयितुं परः सहनैरपि वत्सरैः सहस्त्रजिह्वोपि जिह्म एव, तां यदा भवदीयपुत्रः परिणेष्यति तदा सा बालिका स्वगुणैरेनमावर्त्य पापमित्रसंसर्गाद् विरहयिष्यति । __ अथ हर्षातिरेकान् महाराजः प्रोवाच-हं हो महामात्य ! गच्छत शुभपरिणाममहीनाथसमीपम, याचत तां कन्याम् । समयज्ञः प्राह - देव ! मात्वरिष्ठाः नह्यसौ भवदीयवशिष्टानां विषयो येन तत् समीपगमनमनुमन्यामहे, द्विविधा हि नगरराज-राज्ञी-पत्र-मित्र-कलत्रादयः पदार्थाः - बहिरंगा अन्तरङ्गा श्च, बहिरङ्गा भवतामप्यनुभवसिद्धाः, अन्तरङ्गा असंव्यवहारनगरकर्मपरिणामराजादयो गुरुपदेशगम्याः, तदयं राजा अन्तरङ्गपदार्थे वत्तते । ततो यदा कर्मपरिणामो राजाऽस्य कुमाररस्यान्तरङ्गजनकस्तां याचयिष्यति' तदा तया सह विवाहो भविष्यति, अस्ति चास्य भवितव्यता नामान्तरङ्गप्रिया, सा यदाऽस्याऽऽदेशं दास्यति तया नवोढया च सह न कलहायिष्यते तदा परिणयनं भावि इत्यादि वृत्तान्तं कथितपूर्वी समयज्ञो वस्त्रदानादिसम्मानं कृत्वा तेन वैरसिंहेन राज्ञा विसृष्टः । ___वर्दनकुञ्जरकुमारस्तु हितमप्यभिहितो वैश्वानराविष्टो मुष्टामुष्टि केशाकेशि दण्डादण्डि चकार । तस्य वचनेऽन्यथा समर्थ्यमाने प्रबलश्वासपवनपूरितनासारन्ध्र धमनीभ्यां ध्यापयित्वा चक्षर्गोलौकोपाटोपवहिना लोहगोला विवाऽत्यन्तमरुणौ विधत्ते स्म । अथास्तोकलोकानेकोऽपद्रवकारिणः कालसेन पल्लीपतेर्विग्रहाय प्रयाणभेरी भाङ्कारपूर्वकं चलितं महाराजवैरसिंह विज्ञाय सोऽयमहङ्कारमहागिरिस्तमनुज्ञाप्य स्वयं प्रजिगघाय । पल्लिं गत्वा दुर्दरसमरारम्भपूर्वकं पण्योदयप्रसादात् तं जीवग्राह गृहित्वा व्यावृत्तो राजानं नमश्चकार । तथा तस्मिन् प्रचण्डदण्डपूर्वकं मुक्ते स कुमारस्तद्दिनादारभ्य 'ममायं सर्वोऽपि वैश्वानरमित्रप्रसादः' यदहं विक्रान्तेष रेखा प्राप्तो जगति विख्यातः' इति धिया तस्य सविशेष गौरवं चकार, अनेकाश्च कन्यकाः स्वयंवरायाताः पुण्योदयवशतो राजादेशतश्च सहर्षमुपायं स्त ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org