________________
अंतरंगकथा
१४३
धननिचयेन तत्र मुक्त्वा स्वयं देशान्तरमगमत् । तैः सार्थपतिपुरुषैः प्रयन्नतस्तस्मिन् परिपाल्यमाने मासचतुष्टयेन देशान्तरं विधाय स सार्थनाथः प्रत्यावर्तत । दृष्टा च तं निरन्तरगलन्नयनं प्रम्लानवदनं पुच्छपतितं दुःसहदुःखावस्थास्थितं निजधूर्खहं सगद्गद-जलभरितगलकन्दल: शोकमस्तोकं चकार । कण्ठगतजीविते च तस्मिन् सार्थमध्यस्थिताभ्यां कारूण्यपूर्णमानसाभ्यां मुनिभ्यां कर्णाभ्यर्णमुपेत्य पञ्च परमेष्ठिपरममन्त्रः समच्चारयाञ्चक्रे । अथ भवितव्यता प्राह - प्राणनाथ ! स्मरसि भवतः पुरस्तादहं कथयामि, त्वमत्र भवे किमपि दुर्लभतरं पदार्थान्तरमवाप्स्यसि, स एवायं परममन्त्रः । पदार्थान्तरं मन्तव्यः ततो भवसम्भवदःखदावपावकघन घनाघनसमालमेनं गृण्हातु भवान् इति । तयोक्ते स धुरन्धरः सादरं पञ्चपरमेष्ठि परममन्त्रमश्रौषीत् । पञ्चत्वमापनस्तत् प्रभावतो बहिरङ्गनगरेषुकञ्चनमयविहारागारप्राकारे काञ्चनपरनाम्नि महानगरे वैरसिंहमहाराजस्य नन्दा देव्याश्च वदनकंजरो नाम कामसमानरूप सुतः समजनिष्ट । तस्य तस्मिन् भवे सहजातौ सहवदितौ सहपांशक्रीडितौ पण्योदय-धूमध्वजनामानौ विश्वासपात्रं मित्रे समजनिषाताम् । स महोपाध्यायं साक्षिण कृत्वा द्वासप्तति सङ्ख्यं कलाकलापमाकलयामास । तं गुणग्रामाभिराममूर्तिमालोक्य पृथिवीपतिना समयज्ञो नाम नैमित्तिकः प्रपच्छे-हे निमित्तज्ञ ! ममायमजरुहो हस्तन्यस्तरेखापद्धतिमिव धनुर्वेद-गजशिक्षादिका कलानां द्वासप्ततिमप्यबोधि, तत् कथय किमयं राज्यभारधरणयोग्यो वा न वा? इति । सम्यक्परिभाव्य राजानं प्रति प्रत्युवाच - पीयूषमिव विषेण शशाङ्ककमिवकलङ्केन धननिवहमिवकार्पण्येन गुणग्राममिवानौचित्येनाऽस्य सकलमपि कलाकलाप पापमित्रवैश्वानरसंसर्गेण नितरां पण्योदयभूषितमपि दूषितं मन्ये, नासावनेन पापमित्रेणाविष्टो महापिशाचाविष्ट इव मातरपितरावुपलक्षयति, नापि गुरूपदेशं तृणायापि मन्यते, न च कलाकलापं वत्सर सहस्त्राधीतमपि लवमपि सस्मार । तच्छृत्वा महीनाथः प्रम्लानमखकमलो विच्छायकायः सद्यो विषन्नमाणसो बभूव । तं तथा अवलोक्य समयज्ञः प्राह-देव ! मास्म विषीद, भविष्यत्येवानेन पापमित्रेण सह तवाङ्गरुहस्य संसर्गोच्छेदः । राजा प्राह- कदा? । सप्राह- श्रृण सावधानेन चेतसा । अस्ति चित्तसौन्दर्यनाम नगरम्, तत्र शुभपरिणामो नाम राजा, तस्य
___ Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org