________________
अंतरंगकथा
“भद्रे ! इदमित्थमेव यथा त्वमात्य, मूढा वयम्, क्षम्यतामसाकमेकोऽपराधः, कथयत कांस्कान् कुलपत्रका स्तत्र प्रेषयिष्यसि ? ।
सा बभाषे - एकस्तावन् मदीयः प्राणनाथः प्रेषयितुमुचितः संसारी जीवो नाम? अन्यानपि तज्जातीयान् प्रेषयिष्यामि - इत्यभिधायोत्थाय गत्वा तत्राऽऽवासे संसारिजीवमन्यकुलपुत्रकैः सह सर्वकार्येषु स्वतन्त्रा चालितवती । कारितश्च निवासं ससंव्यवहारपरान्तर्वर्तिनि साधारणवनस्पति नाम्नि पाटकेऽनन्तं कालं यावत् । भ्रमितश्च तत्र तया ताभ्यां च तीव्रमोहोदयाऽत्यन्ताबोधाभ्यां चतुर्दशसु योनिलक्षेषु । अवतारितश्च ग्रहण-मोचनादिषु लोकव्यवहारेषु । ततस्तस्मादाकृष्य स तया प्रत्येकवनस्पतिनाम्नि पाटके निवासयाञ्चक्रे । तत्र तेन तस्याः प्रसादतो दशस योनिलक्षेषु, समुत्पत्तिर्लेभे । ततस्तया प्रेरितेन तेन क्षिति-जल-ज्वलनपवनकायेषु चतर्षु । पाटकेष प्रत्येकं सप्त सप्त योनिलक्षाणि बम्भ्रम्यमाणेन सङ्ख्यातीतं कालं यावन्निवासश्चक्रे । तेभ्योऽपि तया निष्क्राम्य विकलाक्षपाटकेष त्रिष कृमि-शङ्खजलौकः पूतरादिरूपेण कुन्थु-पिपीलिकादिभावेन भ्रमर-पतङ्ग-मक्षिकाद्याकारेण च सउत्पादयाम्बभूवे ।तत्रासौ त्रिष्वपि पाटकेषु प्रत्येकं द्वयोर्द्वयोर्यानिलक्षयो र्जननिमचकलन् । ततः पञ्चक्षपाटके उक्षाऽक्ष-भल्ल-रक्षु हर्यक्षादिरूपैश्चत्वारियोनिलक्षाणि लक्षी चकार । ततो मीन-भुजङ्गमविहङ्गमादिभवैरन्तरितां संसारिजीवः । सप्तसु
सप्तस नरकपाट के ष दु:सहदु :खनिवहं सहमानः सम्भूतिमूरीचकार, सततोत्पद्यमानश्चत्वारियोनिलक्षाणि लक्षयामास । ततः किरात-शक-यवनतुरष्कादिरूपेण मनुष्यपाटकेषु विविधेषु समुत्पद्यमानश्चतुर्दश योनिलक्षाणि गोचरी चकार । तस्मादपि त्रिदशपाटकेषु चत्वारियोनिलक्षाणि कक्षी कुर्वन् नर-तिर्यग्भवान्तरितामुत्पत्तिमुररी चक्रे ।
एवं चतुरशीतिलक्षसङ्ख्यं भवभ्रमणं कारयित्वा भवितव्यतया निजप्रेयस्या पुनरपि स साधारणवनस्पतिपाटके नीतः, ततोऽपि प्रत्येकवनस्पत्यादिषु । एवमनन्तवारस्तावन्तं पूर्वोक्तभवभ्रमणविस्तारं निजप्रेयसीप्रसादतः संसारिजन्तरासादयामास।
अश्रान्तानन्तभवभ्रान्तिं तत्र संसारचक्रे कुर्वता तेन तावन्तः सलिलसम्भारा अपीयन्त यावन्तो, न सलिलपल्वलाऽन्धसिन्धष । आहारस्तावानभ्यवहारितो न यावन्तः समेरु-नील-निषधद्वीपादयोऽपि तावन्ति शरीराण्यत्यजन्त यावन्तामनन्ततमभागे
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org