________________
अतरंगकथा
प्रासादाः प्रकटिताः । एकैकस्मिन्नपि प्रासादे असंङ्ख्याता एव निगोदनामानोऽपवरकाः प्रख्यापिताः । एकैकत्राप्य प्रवरके अनन्ता एव समकालोच्छ्वसन-निःश्वसनजीवन-मरणादिधर्माणः कौटुम्बिकाः । इत्थं प्रदर्श्य हस्ततालिका प्रदानपूर्वकं तन्नियोग' प्रति प्रत्युक्तं तीव्रमोहोदयेन “भद्र ! दृष्टं भवता नगरप्रमाणम् ?" हन्त ! हताशस्य सन्तोषस्य केयमाशा पिशाची ? यदहं मनुजगति' नगरी क्रमे णाकृष्याकृष्य कुलपत्रकान् पविरललोकां करिष्यामि, एतास कौटम्बिककटम्बकोटिष्वनन्तास विद्यमानास कथङ्कारं सा नगरी निर्जना जनिष्यते ? पश्येयत्यपि गते काले एकस्य निगोदस्यानन्ततम एव भोगो निर्वत्तिं गत इत्यादि कथयित्वा गौरवपूर्वकं तन्नियोगः म्नान-भोजन-विलेपनानि कारितः । अथवासरस्य पश्चिमयामसमये मन्त्रसभायामपविश्य तीव्रमोहोदयोऽत्यन्ताबोधमवादीत्-"महामात्य ! कथय के नाम कौटुम्बिकास्तत्र प्रेषितव्याः ? किं पटहोद्धोषणापूर्वकमेतेषां गमनाभिलाषविशेष परस्कृत्य किं वा राज्ञआज्ञा प्रमाणीकृत्य किमथवा यदृच्छा परस्कृत्य ते तत्र समादेष्टव्याः ? ।।
सचिव : प्राह - पृथ्वीनाथ ! प्रथमविकल्पकल्पनं तावदयुक्तं, ते हि पटह मुखेन सादरं मुच्यमाना अपि न मुञचन्ति चिरतरकालप्ररूढसाधारणशरीरस्नेहम्, नावगच्छन्ति लवमपि मनुजगति नगरी व्यवहारम्, तत् कथं तेषां गमनाभिलाषो भविष्यति ? उत्तरविकल्पद्वयं तु न्यायमार्गबाह्यत्वादनवकाशमेव, तस्मात् साम्प्रतमेतदेव साम्प्रतम्- अस्ति तेषां सर्वेषामप्येकाऽप्यनेकरूपास्त्रीरूपाऽपि त्रिभवनगतपुरूषविधीयमान परुषकारगिरीन्द्रनिर्दलनकलिशधाराभवितव्यता नाम प्रिया । सा हि भगवती सर्वकार्येषु बद्धशाटिका परिकरः पुरुषो वर्तते । तस्या:पुरस्ताच्छक्रोऽपि ङ्कायते, चक्रवर्त्यपि तृणायते, हरिरपि प्रबलपवनान्दोलितार्कतरलतूलायते अपि च -
अमुल्यग्रे सुमेरुः सपदिबलवता धार्यतेऽसौ समन्ता । दादित्यो नित्ययात्रां विदधदभिनभः स्तभ्यते वा कथञ्चित् । आरङ्कादा च शक्रात् स्वंयमभिलषितं भव्यता कार्यजातम् । कर्वाणा सौनिकेन त्रिजगतिसकले कार्यते वार्यते वा । योऽप्यस्मत् स्वामी कर्मपरिणाममहाराजो वा सोऽप्येनां द्रष्ट्वै चारित्रधर्मनृपति
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org