________________
१३६
सुरसुंदरमुणिनाहो, भवसंभवभावनिवहपरमत्थं । पयडियजणाण पत्तो, सासयसुक्खं लहुं मुक्खं ॥१७३४॥ सुरसुंदरनरवइणा, विसुद्धमणभावणा जहा विहिया । अवरे वि मुक्खसुक्खं, समीहयंता तहा. कुणह ॥ १७३५।। इति भावनायां सुरसुन्दरराजकुमार कथा
एवं गाथा ग्रन्थ १७३५ छ ।
अन्तरंगकथा
इति दानादिकमुत्तमधर्म मुनिना निरूपितं श्रुत्वा । राजादिजनः सर्वस्तमेव जग्राह विधिपूर्वम् ॥१॥
सिरिपउमप्पहसामिचरियं
अथ
धर्मेदेशनापर्यन्तप्रस्तावे सादरमपराजितमहाराजस्तं महामुनिमप्राक्षीत् “परमेश्वर ! केन वैराग्यहेतुना नवे वयसि सुराऽसुर-नर- तरुणीमणोहारिणि शरीरमहसि तत्र भवद्धि र्भवद्भिर्गङ्गाप्रतिस्त्रोतोगमनसमानं, वालुकाकणगणचर्वणायमानं श्रामाण्यमग्राहि? “अथान्तरंङ्गारातिविततिदमनदक्षः श्रीमानरिन्दमो महामुनिरवादीत्“महाराज ! न खलु मम वैराग्यनिबन्धनमद्यतनेनैव दिवसेन श्रोतुं शक्यम्, ततो निश्चिन्तचेता दिनान्तरे समागच्छ, येन स्ववैराग्यहेतुस्वरूपं निरूपयामि भवतः पुरस्तात् ।'
अथ राजा 'गुर्वादेशः प्रमाणम् इत्यभिधाय पुरान्तः प्रविश्य द्वितीयैकदिनारम्भे समायातस्तथैव महामुनिं पप्रच्छ । भगवानवादीत् - "पृथ्वीनाथ ! मम वैराग्यनिबन्धनं तत्, यन्न केवलं मम तवान्येषामपि श्रूयमाणं वैराग्यायजायत एव । तथाहि
अस्ति समस्तान्तरङ्गनगराणामादिममनादिमूलप्रतिष्ठमसंव्यवहारं नाम नगरम् । यत्रात्यन्तनिग्डिस्नेहमोहिता इव साधारणशरीरनिवेशिनोऽनादिवनस्पतिनामानोऽनन्ताः पुरुषाः प्रतिवसन्ति स्म । तत्र कर्मपरिणाममहाराजप्रसादपत्तलाभुज्यमाने महानगरे तीव्रमोहोदयो नाम मण्डलेश्वरः । तस्य मन्त्री मन्त्र प्रपञ्चचतुरोऽत्यन्ताबोधो नाम । ताभ्यां च मण्डलेश्वर - महत्तमाभ्यां कर्मपरिणाम नरेन्द्रादेशतस्ते लोकाः सकलकालं सुप्ता इव मूर्च्छिता इव मृता इव विशिष्टचेष्टाशून्यतया निगोदाभिधानेष्वपवरकेषु प्रक्षिप्य धार्यन्ते स्म, अतएव तनगरमसंव्यवहारमितिगीयते ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org