SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीमल्लवादिसूरिस्तुतिः वादरंगे मल्ल इव मल्लवादी सुविश्रुतः । शासनोद्योतकर्ता यः सेवे तं मल्लवादिनम् ॥१॥ नयचक्रं कृतं येन दुर्ग्राह्यं पण्डितैरपि । तद् द्रष्टुं लब्धसौभाग्यः सेवे तं मल्लवादिनम् ॥ २॥ विधिनियमभेदाभ्यां द्वादशारप्ररूपकः । स्याद्वादतुम्बकत्तों च सेवे तं मल्लवादिनम् ॥ ३ ॥ स्तुतः श्रीहरिभद्रेण हेमचन्द्रेण यो भृशम् । अन्यैर्वाचकवर्यैश्च सेवे तं मल्लवादिनम् ॥ ४ ॥ निजमातुलजेतारं बौद्धाचार्य सुयुक्तिभिः । वादेऽजयत् भृगोः पुऱ्या सेवे तं मल्लवादिनम् ॥ ५ ॥ नयप्रमाणपाथोधिः द्वादशारैस्तरङ्गितः। येन श्रीगुरुदेवेन सेवे तं मल्लवादिनम् ॥ ६॥ नयचक्र द्वादशारं, भवचक्रनिवारकम् । येन प्रपंचितं सम्यक्, सेवे तं मल्लवादिनम् ॥ ७ ॥ मल्लवादीति यः प्रातः स्मरणीयः जिनेन्द्रवत् । विदुषां सर्वसूरीणां सेवे तं मल्लवादिनम् ॥ ८॥ स्तुतिकर्ता श्रीमद्विजयलब्धिसूरीश्वरः Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002587
Book TitleDvadasharnaychakram Part 4
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1960
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy