SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [उभयनियमारे पद्यानि पदानि तथापि कार्याल्लोकप्रसिद्धेरेव वा व्यवस्था, दृष्टो हि लोके तेषां शब्दानामर्थप्रत्यायनासम्भवादर्थप्रत्यायकस्तत्समुदायः समुदायिभ्योऽन्य इति केचित् , तस्मादेव कार्यात् तेषु तस्य प्रतिदेशं समस्तेषु वा वृत्त्यसम्भवान्न व्यतिरिक्त इत्यपरे, अन्त्यवर्ण संहताशेषदेशावयवः समुदायोऽभिधाता पूर्ववर्णजनितबुद्धिपरिपाकादित्येके, सर्वावयवेषु तिरोहिताभिम5 तेषु वितत्य व्यवस्थितो बुद्धिसंस्कारपरिपाकसमुदाय इत्यपरे, समुदायात्मा शब्द एक एव, अनेक एव वा प्रत्यायक इत्यपरे किं न एतैः, यदि व्यतिरिक्तो यद्यव्यतिरिक्तोऽन्त्येऽशेषे वाऽभिन्नो भिन्नो वा प्रत्यायकः समुदायोऽवयवा एव वा योऽस्तु सोऽस्तु सर्वथार्थप्रत्यायनात् समुदायः शब्दोऽनवस्थिततर्कत्वात् पुरुषाणाम् , यथोक्तं 'यत्नेनानुमितोऽप्यर्थः' इत्यादि, तथा 'हस्तस्पर्शादिवान्धेन' इत्यादि (वाक्यप० कां० १ श्लो० ३४, ४२) आगममात्रमेतत् । 10. (अत्र चेति) अत्र च-विधि नियम]नियमे संघातो वर्णपदवाक्यादीनां शब्दार्थ उत्पत्तीवभि व्यक्तौ वेति, यदि वर्णादयो जन्यन्ते यद्यभिव्यज्यन्ते कार्यनित्यपक्षयोर्द्वयोरप्यविरुद्धः संघातो वाक्यादिः शब्द इति, स्यान्मतमुत्पन्नमात्रप्रध्वंसित्वाद्वर्णादीनां योगपद्याभावे कुतः संघात इत्यत्रोच्यते-यद्य[प्य]प्राप्तयोगपद्यानि पदानि कार्यात प्रसिद्धा व्यवस्था लोके, किं तत् कार्य ? अर्थप्रतिपादनम् , तद्यथा वर्णादीनां तिरोहि तानां परिणामान्तरमापन्नानां विनष्टानां वा बुद्धौ संस्कारमाधायावयोरभिधेयविज्ञानोत्पत्तिनिमित्तत्वं तदभावे 15 तदभावात् प्रयोगानन्तरीयकत्वाच्च प्रत्ययस्यानुमीयते, लोकप्रसिद्धेरेव वा व्यवस्था, दृष्टो हि लोके तेषां वर्णपदादीनां शब्दानामर्थप्रत्यायनासम्भवादर्थप्रत्यायकस्तत्समुदाय इति शक्तिः [इति] प्रसिद्धः सन्निदानी ? वर्णसंघातः पदम् पदसंघातो वाक्यम्, वाक्यसंघातः प्रकरणमध्यायो वा प्रकरणसंघातोऽध्यायसंघातो वा ग्रन्थ इत्याह-संघात इति। संघातश्च समुदायः, स च वर्णानां नित्यत्वमनित्यत्वं वा स्यात्तथापि संघातरूपत उत्पत्तिरभिव्यक्तिर्वा पदवाक्यादेन विरुद्धे. त्याह-यदि वर्णादय इति । ननु वो उत्पत्त्यनन्तरक्षणे विनश्यन्ति, यथा गौरित्यादौ प्रथममुत्पन्नो गकार औकारोत्पत्तिकाले नष्टः सोऽपि विसर्गोत्पत्तिकाले, एवञ्चैषां त्रयाणां वर्णानां युगपस्थितिरेव नास्ति कथं संघातः स्यादित्याशङ्कते स्यान्मतमिति । वर्णानां क्षणिकत्वेऽपि लोके शाब्दव्यवहारदर्शनाद्वर्णसमुदायासम्भवेऽपि पदव्यवस्था परिकल्प्यत इत्याह-यद्यपीति, पदानामयोगपद्येऽपि नाव्यवस्था, अपि तु कार्यादर्थप्रतिपादनाद्यवस्थैवेति भावः । वर्णपदवाक्यादीनां संघातात अर्थप्र नां संघातात् अर्थप्रतिपत्तिदृष्टा, देवदत्त ! गामभ्याज शुक्लां दण्डेनेत्यादेः, तत्र वाचः क्रमवर्तित्वादुत्तरवर्णादिश्रवणकाले पूर्ववर्णादीनां तिरोहितत्वात् , पूर्ववर्णादीनामेव वा वर्णान्तरत्वादिना परिणमनात्, यद्वा विनष्टत्वात् अनवस्थितानामपि वर्णादीनां तत्तद्वर्णादिविज्ञानजनितसंस्कारद्वारेणाभिधेयविज्ञानोत्पत्ती निमित्तत्वम्, प्राक् तथाविधवर्णादीनामभावे तथाविधाभिधेयविज्ञानानुदयात् , तथाविधशब्दप्रयोगानन्तरमेव बोधोदयाय तुमीयत इत्यादर्शयति-तद्यथेति । कार्याव्यवस्थामभिधाय लोकप्रसिद्धर्व्यवस्थामाह-लोकप्रसिद्धरेव वेति. वृक्ष इत्यादी वकारादेः केवलं वर्णादेर्नार्थबोधजनकत्वं, अपरवर्णोच्चारणवैयपित्तेः तस्माद्वकारऋकारककारषकाराकारविसर्गसमुदायोऽर्थबोधजनकः स एव समुदाय इदानीं शक्तिरिति प्रसिद्धः, समुदायिभ्यो वकारादिप्रत्येकवणेभ्योऽन्यः, प्रत्येकवर्णेभ्योऽसम्भविनोऽर्थविशेष. प्रत्ययलक्षणकार्यस्य दर्शनादिति केषाश्चिन्मतमिति भावः । सोऽयं समुदायः कार्यस्यार्थप्रत्ययस्य निर्हेतुकत्वप्रसङ्गवारणाय प्रकल्प्यमानो न समुदायिभ्यो व्यतिरिक्तः, व्यतिरिक्तत्वे हि वर्णषु समुदायस्य प्रतिवर्णमेकदेशेन कास्न्यंन वा, समस्तेष्वेव वर्णेषु वृत्तिरभ्युपेया १ तावनित्यक्तौ। २ सि.क्ष. त्वशब्दा०। २ सि. क्ष. छा. डे. प्रसिद्धाघव०। ३ सि.क्ष. छा. डे. संस्कारमावयोरभि०।४ सि.क्ष. छा. डे. वर्णाभेदादीनां । ५ सि.क्ष. छा. डे. प्रसिद्धा स०। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy