________________
wwwwwwwwmmmm
नयस्यास्य मते शब्दार्थः] द्वादशारनयचक्रम्
यदि चार्थान्तरापोहो न भावान्तरमित्यपोहवानर्थः शब्दवाच्यो न भवत्यतो नापोहो विशेषणमिष्टं कथमिदं तर्हि यत् सत् तद्रव्यं, यद्रव्यं तत्सदिति ? उभयशब्दार्थव्युदासानुगृहीतस्य समुदायस्यैकत्वात् संहतशब्दद्वयाभिधेयत्वात् , न तु सदर्थस्य द्रव्यशब्देनाभिधानात् तथार्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते यस्मिन् वस्तुन्यपोहः क्रियते तच्च द्रव्यं शब्दार्थो नापोहमात्रमिति, किमुक्तं भवतीति चेदुच्यते यदि द्रव्यं यद्यद्रव्यमर्थान्तरा-' पोहः तद्वांस्त्वर्थः शब्दार्थत्वेन विवक्षितत्वादुच्यत एव, बुद्धिस्थान्वयव्यतिरेकार्थभेदप्रत्ययोत्पत्तिदर्शनादिति, तस्मादनपहृतः पश्चिमदोषोऽपीत्यलं प्रसङ्गेन । ___यदि चार्थान्तरापोहो न भ[]वान्तरमित्यादि, अभावान्तरत्वादर्थान्तरापोहस्यापोहवानर्थः शब्दवाच्यो न भवत्यतो नापोहो विशेषणं नापोहवान् सोऽर्थ इति यदि त्वयेष्टमिति, अस्य विरोधापादनार्थमुच्यते कथमिदमित्यादि पूर्वपक्षितमस्माभिर्यावन्न तु सदर्थस्य द्रव्यशब्देनाभिधानादित्येतस्य 10 सूचनसूत्रेण यावन्नापोहमात्रमिति गतार्थम् , किमुक्तं भवतीति चेदुच्यते यदि द्रव्यं यद्यद्रव्यमर्थान्तरापोहस्तद्वांस्त्वर्थः शब्दार्थत्वेन विवक्षितत्वादुच्यत एव, बुद्धिस्थान्वयव्यतिरेकार्थभेदप्रत्ययोत्पत्तिदर्शनादित्युक्तं भवति, न हि लोके शब्दप्रयोगजनितप्रत्ययपरिच्छेद्यापलापेनान्यः शब्दार्थः शक्यः कल्पयितुम् , सुदूरमपि गत्वा प्रतिपत्तिशरणावस्थनााद्वादानामिति नायं निःसरणोपायः, तस्माद[न]पहृतः पश्चिमदोषोऽपीति, एतेनास्वातंत्र्याझेदाजातेरजातित इति सव्याख्याविकल्पा दोषहेतवोऽपरिहृता वेदितव्याः, तेषां त्वदुक्त- 15 न्यायाध्वानतिक्रमात् परिहारहेतूनां तद्विकल्पानुसारित्वाचेत्यलं प्रसङ्गेन ।
प्रस्तुतनयमते शब्दार्थो विधीयते
अत्र च सङ्घातो वर्णपदवाक्यादीनां शब्दार्थ उत्पत्तावभिव्यक्ती वा, यद्यप्यप्राप्तयोगप्रत्यासम्नमात्मोक्तं विस्मृत्यैवोच्यत इति दर्शयति-यदिचेति । अर्थान्तरापोहो न भावान्तरम् , न द्रव्यरूपं, न प्रथमप्रतियोगिरूपमिति यावत् , किन्त्वभावान्तरम् , तस्माच्छब्दवाच्योऽर्थो नापोहवान् येनापोहो विशेषणमर्थश्चापोहवान् भवेदिति शङ्कते-अभावा-20 न्तरत्वादिति । अयमभ्युपगमो विरुद्धः प्राक् त्वयैवापोहवतः शब्दार्थत्वाङ्गीकारात् , अस्माभिः पूर्वपक्षतया प्राक् प्रदर्शितमेतत् , तेन विरोध इत्याशयेन प्राचीन ग्रन्थं स्मारयति-कथमिदमित्यादीति । अस्य ग्रन्थस्यैव सङ्ग्रहेण प्रदर्शकस्तत्पूर्वतनग्रन्थश्च प्रदश्यते-सूचनसूत्रेणेति, इह त्वर्थान्तरापोहो नासद्भावमात्रमेवोच्यते, किं तर्हि ? अर्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यत इत्यादि ग्रन्थेनेत्यर्थः । भावार्थमाख्यातुमाह-किमुक्तमिति, अर्थान्तरापोहो द्रव्य-भावान्तरं अद्रव्यं-अभावान्तरं वा भवतु, तद्वानर्थः शब्दार्थत्वेन विवक्षितत्वाच्छब्देनोच्यत एव, शब्दप्रयोगादन्वयव्यतिरेकाभ्यां विधिप्रतिषेधरूपार्थभेदविषयप्रत्ययोत्प- 25 त्तेरनुभवसिद्धत्वात् , अयमयं भवति, अयं न भवतीति, एवमुक्तं भवतीत्यर्थः । तदेवाह-यदि द्रव्यमिति । हेतुं दर्शयतिबुद्धिस्थेति । व्यतिरेकमुखेन हेतुं समर्थयति-न हि लोक इति, यद्विषयिणी बुद्धिः शब्दप्रयोगादुपजायते तद्विषयपरित्यागेनान्यस्य शब्दार्थत्वपरिकल्पनमयुक्तम् , अनुभूयमानानुभवापलापस्यान्याय्यत्वात् , यावदुपपत्तिलाभ विचार्याप्यन्ततः सर्वैर्वादैरनुभवस्यैवाश्रयणीयत्वात् , तस्मात्तवायमप्युपायो दोषेभ्यो निःसत्तुं न क्षम इति भावः । तस्मात् पश्चिमदोषस्यापि भाव एव नाभाव इत्याह-तस्मादनपहृत इति । तद्व्याचष्टे-एतेनेति । त्वया जातिमत्पक्षोपर्यदितदोषाणामपोहवत्पक्षेऽपि दुर्वारत्वादित्याह-तेषां 30 त्वदुक्तेति । अपोहवाददूषणं परिसमापयति-अलं प्रसङ्गेनेति । अथोभयनियमनये कोऽसौ शब्दो नाम तदाह-अत्र चेति ।
१ सि. क्ष. छा. डे. पोहस्तद्वास्त्यर्थः त्वशब्दार्थः ।
wwwww
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org