SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ असामानाधिकरण्यसमर्थनम्] द्वादशारनयचक्रम् आचार्य आह अथैतदेव कुतस्त्वया प्रत्यवगतं तद्वक्तव्यम् , अस्मदिष्टवस्त्वन्वयदर्शनादेवैतत्सिद्धम् , तदभावे तदप्रसिद्धेः, एवं तावद्भेदपक्षे परं प्रत्युक्तयोरानन्त्यानुक्तिव्यभिचारदोषयोः सविशेषयोरन्यापोहपक्षेऽप्यस्तित्वं दर्शितम् । (अथेति) अथैतदेव कुतः-शौक्ल्यादितद्रूपादिषु निश्चयः, आश्रितत्वाद्गुणादिषु संशय इति । त्वया यतः प्रत्यवगतं तद्वक्तव्यं विशेषकारणं व्यावृत्तिप्राधान्यवादिना, विधिना दर्शनमन्तरेण वस्तुतो न शक्यम् , अस्मदिष्टवस्त्वन्वयदर्शनादेवैतत्सिद्धम्, तदभावे तन्नियमानियमाप्रसिद्धेः, एवं तावदित्यादि, भेदपक्षे परं प्रत्युक्तयोरानन्त्यानुक्तिव्यभिचारदोषयो [र]दृष्टेरन्यशब्दार्थे' इत्यादिनाप्यपहृतत्वात् सविशेषयोरन्यापोहपक्षेऽप्यस्तित्वं दर्शितमित्युपसंहारः। अनन्तरस्यापि चाभावः तद्यथा 'व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता' असन्निवृत्तेः 10 सर्वभेदव्यापित्वात्तैरभिन्नार्थत्वात् सामानाधिकरण्यमुपपन्नमित्येतन्न, यस्मात्-'असन्निषेधाभावत्वाद्विशेषार्थविभिन्नता' सामान्यशब्दस्य हि सदादेः स्वभेदाप्रतिक्षेपेणार्थान्तरव्युदासे कुतो व्यापारोऽवधारितः प्रागुक्तं विस्मृत्य, अत्र तु वयं ब्रूमः स स्वभेदप्रतिक्षेपेणैवेति, तस्य सन्नियमार्थत्वात् , असत्प्रतिषेधस्याभावत्वात् , ततो भेदानां परस्परतः सदसत्त्वात् स्वभेदाः प्रतिक्षिप्ता एव, सन्तोऽप्यसंत एव न भवन्तीति प्राप्तम् , ततश्च भेदश्रुत्या सामानाधिकरण्यमनु- 15 पपन्नम् , असन्निवृत्तेरभावसाधनत्वात् , अभावेन वैकविभक्तित्वमनुपपन्नं भेदानाम् । (अनन्तरेति) अनन्तरस्यापि च[1]भावः-यदप्युक्तमनन्तरस्यापि जातिसम्बन्धाभिधानपक्षयोरुक्तस्य समानाधिकरणाभावप्रसङ्गदोषजातस्य[]भाव इति, तद्यथा 'व्याप्तेरन्यनिषेधस्य तद्भेदाथै र भिन्नता ।' wwwe_mmon अथैतदेवेति । शौक्ल्यादिना रूपादेनिश्चयः, आश्रितादिना गुणादेः संशय इति कथं विज्ञातं त्वया, व्यावृत्तिप्राधान्ये भेदलक्षणविध्यसंस्पर्शन सर्वस्यादर्शनादभावमात्रेऽविशेषादित्यसकृदभिहितत्वात् , न हि विधिरूपेण भेददर्शनमन्तरेण संशयनिश्चयवैलक्षण्यं 20 सम्भवतीति व्याचष्टे-शौक्ल्यादीति। तदभाव इति, अन्वयरूपेण वस्तूनां दर्शनाभावे गुणो नियमादाश्रित एव नानाश्रितः, आश्रितस्तु गुणो वा कर्म वा सामान्य वा विशेषो वा समवायो वेत्यनियम इति प्रसिद्धिः कथं स्यात् ,नैव भवेदितिभावः। ननु मेदार्थतापक्षे भेदानां बहुत्वेन सम्बन्धाशक्यत्वान्नाभिधानं भेदानाम्, किञ्च सच्छब्दो यथा द्रव्ये वर्त्तते तथा घटादिष्वपीति व्यभिचारः, तस्मान्न भेदोऽभिधीयते किन्तु दर्शनस्य सर्वत्रासम्भवात् सम्भवे वा सर्वथाऽनुमानाभावात् खसम्बन्धिभ्योऽन्यत्र वृक्षादिशब्दादर्शनात् तद्व्यवच्छेदानुमानादन्यापोहेन खार्थाभिधानमिति त्वया साधितम् । तदेतत्तव मतेऽपि दूष्णं भेदानन्त्यात् गुणसमुदाय-25 मात्रत्वाच सर्ववृक्षार्थादर्शनात् खार्थाशस्याप्यदर्शनात् , स्वार्थांशवृत्तित्वाभ्युपगमेऽप्यंशस्यापि गुणसमुदायमात्रत्वेन सम्बन्धकरणासम्भवादवृक्षव्यवच्छिन्नस्यापि च स्वार्थस्य समस्तानुमेयावृत्तित्वेन नानुमानाय नाभिधानाय वा वृक्षशब्दः प्रभवति वनस्पतिचैतन्ये खापवदिति प्राग्विस्तरेणोक्तमित्याह-भेदपक्ष इति। जात्यादिपक्षे त्वया सामानाधिकरण्याभावदोषमापाद्यान्यापोहपक्षे तस्याभाव उक्तस्तदपि न युज्यत इत्याह-अनन्तरस्यापि चेति । जातिपक्षे भेदानन्त्यव्यभिचारप्रयुक्तावाचकत्वं शब्दस्योक्त्वा जात्यभिधायकत्वे वृक्षः शिंशपेति मिन्नप्रवृत्तिनिमित्तकत्वविशिष्टै कार्थप्रतिपादकत्वस्वरूपसामानाधिकरण्यासम्भवं भेदाक्षेपासम्भ- 30 वादुक्त्वा खमतेऽवृक्षव्यावृत्तिरूपस्य वृक्षशब्दार्थस्य निखिलेषु वृक्षप्रभेदेषु शिंशपापलाशादिषु व्याप्तेस्तैः सहाभेदाच सामानाधिकरण्य सेत्स्यतीति यदभिहितं तन्न सम्भवतीत्यभिधातुमादौ तदुक्तिमाह-अनन्तरस्यापि चाभाव इति । वादी खमते तदभावमादर्शयति-तद्यथेति, व्याप्तेरिति । अन्यनिषेधस्य अवृक्षादिव्यावृत्तेः व्याप्तेः निखिलभेदव्यापनात् तद्भेदार्थक्षमेदशिंशपाप Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy