SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ न्यायागमानुसारिणीव्याख्यासमेतम् [ उभयनियमारे परमाण्वोरुत्क्षेपणादि रूपदि च स्यादिति, आश्रितत्वादित्यस्माद्धेतोः संशयो न स्यात् कर्मगुणेषु सप्रभेदेष्वनुबन्धिवदनन्यत्वात् तदुपायप्रदर्शनं सर्वगुणादिपरिक्रमेण, कस्मात् ? शौक्ल्यैकात्म्यात्त्वदिष्टादिति । www.wm ९८४ अत्राह - अनन्यत्वमेव तर्ह्यतुल्यं शौक्ल्यादेः, रूपादयो नान्ये शौक्ल्यादेः तद्रूपानुबन्धित्वात्, 5 वृक्षादिपार्थिवत्ववत्, अरूपादित्वे तच्छौवल्यमेव न स्यात्, अरूपादित्वात्, उत्क्षेपणादिवत्, तस्मात्तेन सहानन्यत्वात् न तदपोहः, ये पुनरन्ये आश्रितादेस्तु गुणादयः ततः तेषामपोहानपोहाभ्यां संशयः, तद्यथा - गुणोऽयमाश्रितत्वादित्याश्रित एव नियमात्, आश्रितस्तु गुणः कर्म सामान्यं विशेषः समवायो वेत्यनियमः तस्मात्तेन सह तेषामन्यत्वादपोहोऽनपोहश्चेति संशयः स्यादिति । 10 (अनन्यत्वमेवेति ) अ [न] न्यत्वमेव तर्ह्यतुल्यं शौक्लयादेः - एवं तर्हि नान्यत्वं, किं तर्हि ? [T]न्यत्वमेव मा भूदेतदनिष्टमिति, तद्दर्शयन्नाह - रूपादयो नान्ये शौक्यादेः कस्मात् ? तद्रूपानुबन्धित्वात्, वृक्षादिपार्थिवत्वै[वत्, ] किं कारणम् ? अनिष्टापत्तेः, किं तदनिष्टमिति चेत्- अरूपादित्वे शौक्ल्यस्य तच्छौ क्ल्यमेव न स्यात्, अरूपादित्वात्, उत्क्षेपणादिवदिति, तस्मात्तेन सहानन्यत्वात् शौक्कयेन रूपादेः, न तदपोह:- न रूपाद्यपोह:, ये पुनरन्येऽपि ततस्तेषामपोहानपोहाभ्यां संशयः, तौ पुनस्त उच्येते- आश्रि15 तादेस्तु गुणादयः, तद्यथा - गुणोऽयमाश्रितत्वादित्याश्रित एव नियमाद्गुणो नानाश्रितोऽस्तीति, आश्रितस्तु गुणः कर्म सामान्यं विशेषः समवायो वेत्यनियमः, तस्मात्तेन सहाश्रितत्वेन तेषां गुणादीनामन्यत्वादपोहोऽनपोहश्चेति संशयः स्यादिति । 20 रसादयोऽपि रूपं स्यात् उभयोर्गुणाभेदादित्येवमनन्यता सर्वत्र भाव्येत्याह- कर्मगुणेष्विति । न हि सर्वत्र वयमनन्यत्वं तुल्यं वदामो येनोक्तानिष्टप्रसङ्गः स्यात्, किन्तु असदृशमनन्यत्वं वदाम इत्याशयेनान्यापो हिवः शङ्कते - अनन्यत्वमेवेति । ) प्रोक्तानिष्टापत्तिवारणार्थमनन्यत्वमसमानं शौक्ल्यादेरभ्युपगम्यत इत्याह- एवं तर्हीति । शौक्ल्यादे रूपादीनां नान्यता किन्त्वनन्यतैव तद्रूपाविनाभावित्वाच्छौवल्यादेः, यथा वृक्षादेः पार्थिवत्वाविनाभावित्वं वृक्षादेरभिन्नत्वं पार्थिवस्येत्याह - रूपादय इति । यदि शौक्ल्यादे रूपादि भिन्नं स्यात्तर्हि शौक्ल्यादि शौक्ल्यमेव न स्यात्, तस्य रूपात्मकत्वाभावात् यथोत्क्षेपणादि अरूपत्वान्न शौक्ल्यमित्यनिष्ट सम्भवेन रूपादेः शौक्ल्याद्यनन्यतेत्याह- किं कारणमिति । एवञ्च रूपादीनां शौक्ल्याद्यनन्यत्वाच्छौ क्ल्यपदेन न रूपाद्यपोह इत्याह-तस्मात्तेन सहेति । अथान्यत्वस्यासमान तामेव दर्शयति- ये पुनरन्येऽपीति, शौक्ल्यस्य रूपगुणा25 श्रितैः रूपस्य गुणाश्रिताभ्यां गुणस्य चाश्रितेनाभेदेऽपि आश्रितस्य गुणेन गुणस्य रूपेण रूपस्य शौक्ल्येन सह नानन्यता, यतो हि शौक्ल्यादि रूपमेव गुण एवाश्रितमेव च, आश्रितं तु न गुण एवापरेषामपि कर्मसामान्यविशेषसमवायानां सत्त्वात् एवं गुणोऽपि न रूपमेव, रसादीनामपि सत्त्वात् रूपमपि न शौक्ल्यमेव नीलादीनामपि सत्त्वात् कर्मापि नोत्क्षेपणमेव, अपक्षेपणादीनां सत्त्वात् एवञ्च गुणादेराश्रितत्वनियमेनानन्यत्वान्नाश्रितत्वापोहः किन्तु निश्चय एव, आश्रितस्य गुणानियमात् संशयः, आश्रितादन्यत्वेन यदाऽऽश्रितपदेन कर्म विवक्ष्यते तदा तेनैव सहानन्यत्वेन गुणादीनामन्यत्वादपोहः गुणस्य विवक्षायां कर्मादेरन्यत्वेना30 नाश्रितादपोहः एवञ्चाश्रितादेः गुणादिभिः सहान्यत्वमनन्यत्वञ्चेति अपोहोऽनपोहच तेषामिति भावः । अत्रोत्तरमाहाचार्यः १ सि.क्ष. धा. डे. सूपादिवस्या | २ छा. 'दित्यन्यस्मा० । क्ष. छा. डे. उच्यन्ते । Jain Education International 2010_04 ३ सि. क्ष. छा. डे. पार्थिवत्वम् । ४ सि. For Private & Personal Use Only www.jainelibrary.org
SR No.002586
Book TitleDvadasharnaychakram Part 3
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1957
Total Pages430
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy