________________
निमित्तनैमित्तिकभावास्तित्वम्] द्वादशारनयचक्रम् . नन्वेवं सहचरिभावादनुमानसिद्धौ किमर्थ निमित्तनैमित्तिकभावोपादानम् ? एकावयवमेवास्त्विति, एतच्च न, अग्निवद्व्यभिचारित्वाद्धमस्यापि, यदिह स सदा.........सत्यपि सहचरिभावे निमित्तभूतमग्निमन्तरेण विशिष्टधूमस्यैवाभावः, पाण्डूर्द्धगतिबहलोत्सजयेकदेशबद्धमूलपुनःपुनरुत्थायिधूमस्याग्निमन्तरेणाभावान्निमित्तनैमित्तिकभाव एषितव्यः।।
नन्वेवमित्यादि, एवं तहसिद्धविरुद्धानैकान्तिकव्युदासेन सहचरिभावा[द]नुमानसिद्धौ सत्यां । किमर्थमनर्थकनिमित्तनैमित्तिकभावोपादानम् , तस्मादेकावयवमेवास्त्विति, एतच्च न, अग्निवद्व्यभिचारिस्वाभृमस्यापि-यथाऽग्निधूमं व्यभिचरति, अ[योज्यादावभावात् तथा धूमोऽप्यग्निमपनीताग्निकवासगृहादौ अरणिनिर्मन्थनादौ चेति समानम् , तद्व्याख्या-यदिह स सदेत्यादि, सदृष्टान्तोपनया सभावना गतार्था प्रागुक्तन्याया, सन्निहितनिमित्तसहचरिप्रख्यापनेन, विशिष्टधूमग्रहणं तस्मिन्नेव देशे काले च नानुत्पन्नो नानीतो नाप्यतीतो वाऽग्निरित्येतस्यास्य प्रख्यापनार्थम् , सत्यपि सहचरिभावे निमित्तभूतमग्निमन्तरेण धूमस्यै-10 वाभावान्निमित्तनैमित्तिकभाव एषितव्यः, ततस्तवधारणार्थानि लिङ्गानि दर्शयन्नाह-पाण्डू गतीत्यादि, पाण्डुविशेषणं बाष्पनीहारादिव्युदासार्थम् , ऊर्द्धगत्या बहलत्वेन च धूमिकाव्युदासः, उत्सङ्गिग्रहणात् सराऽऽकारोर्द्धविस्तारित्वं सूच्यते, पार्श्वविस्तारित्वाद्भूमिकानाम्, एकदेशबद्धमूलग्रहणात् अभूतापनीताग्निवात्यादिव्युदासः अनेकत्र भ्रमणादित्वात्तेषाम्, पुनः पुनरुत्थायिधूमग्रहणादपनीताग्निकत्वं तस्मिन् सति साध्यं नित्यत्वं न विद्यत एव, असाधारणत्वाद्विरुद्धत्वाच्च तव्यावृत्तोऽग्निरिति भावः । उपसंहरति-एवम-15 सिद्धेति । निमित्तनैमित्तिकभावरूपाविनाभावप्रयोजनं शङ्कते-नन्वेवमिति । निखिलहेत्वाभासव्युदासः सहचरिभावादेव संजातः. अतः तस्मादेवानुमानसिद्धौ निमित्तनैमित्तिकभावात्मकापरावयवाभ्युपगमो व्यर्थ इत्याशङ्कते-एवं तहीति। असिद्धविरुद्धानकान्तिकाः एव त्रयो हेत्वाभासाः तझ्यावृत्तिः सहचरिभावादेवेति भावः । धूमसामान्यस्याग्निवयभिचारित्वाद् धूमविशेष एवाग्निप्रतिबद्ध इति सूचनाय निमित्तनैमित्तिकभावोऽप्येषितव्य इत्युत्तरयति-अग्निवदिति, धूमस्यायोम्यादावभावप्रयुक्तोऽनेव्यभिचारो यथा तथा धूमस्याप्यपनीतवासगृहारणिनिर्मन्थनादावश्यभावसत्त्वप्रयुक्तोऽग्निव्यभिचार इत्यग्निधूमयोः परस्परव्यभि-20
रित्वे समानतेति भावः । तमेव व्यभिचारं अग्नि व्याख्याय पाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिविशिष्टधमस्यैवामिजन्यत्वात तथाविधधुमस्यैवान्यविनाभावात् निमित्तनैमित्तिकभावोपष्टब्धसहचरिभावस्यैव ग्राह्यतया व्यवयवत्वोक्तियुक्तैवेत्याशयेन व्याचष्टेयदिह स इति, मूलमस्पष्टम् । व्यभिचारित्वेऽग्नि दृष्टान्तः, भावना च यथा धूमवानयमग्नेरित्युक्तेऽयोम्यादावग्निः विनापि धूमेन दृष्टः, तथा धूमोऽग्निं विनाऽपनीताग्निकवासगृहादावरणिनिर्मन्थनादौ चेति, प्रागुक्तन्यायश्च धूमवस्तुत्वानुमानभूतपाण्डुत्वबहलत्वाविच्छिन्नमूलत्वादिरूपेण धूमत्वनिश्चयकरेण विशिष्टधूमस्य लिङ्गत्वान्न व्यभिचार इति । अत्र धूमस्यात्म-25 लामेऽग्यविनाभूताः पाण्डुत्वादिधर्मा इत्युक्तत्वात् सन्निहितनिमित्तभूताग्निसाहचर्य धूमस्य प्रकटीकृतमित्याह-सन्निहितेति । विशिष्टधूमग्रहणप्रयोजनमाह-विशिष्टधूमग्रहणमिति । सामान्येन धूमाग्योः साहचर्ये सत्यपि पाण्डुत्वादिभिर्विशिष्टो धूमो न निमित्तभूताग्निव्यतिरेकेण भवितुमीष्टे तस्मात् सोऽप्यविनाभावावयवत्वेनाभ्युपेय एवेत्याह-सत्यपीति । तादृशधूमगमकानि दर्शयति-पाण्डाति, पाण्डुपदेनेषत्पाण्डुरूपो धूसरवर्णो ग्राह्यः, तेन श्वेतभूतबाष्पनीहारादिव्यावृत्तिरित्याशयेनाह-पाण्डु विशेषणमिति । अल्पधूमव्युदासायोर्द्धगतिबहलग्रहणमित्याह-ऊर्द्धगत्येति, अल्पो धूमो धूमिका, अल्पत्वादेव पार्श्व-30 विस्तारित्वात् किञ्चिदूर्द्धगतिमत्त्वाच्चोक्तेऽपि विशेषणे न व्यावृत्तिरिति कृत्वा उत्सनिग्रहणमित्याह-उत्सनिग्रहणादिति । अन्यानि विशेषणानि स्फुटानि । एवञ्च यादृशं कार्य यादृशात् कारणात् प्रत्यक्षानुपलम्भाभ्यां निश्चितं, तत् तन्न व्यभिचरति, -
१ सि. नानग्निधूमं। २ सि. छा. डे. यदिहे स सदे०। ३ सि. छा. पाण्डूर्वतीत्यादि।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org