________________
प्राक्कथनम्
अयि मान्यमुनिवराः विचक्षणमतयो विपश्चिन्मणयश्च !
भवतां पुरत इतः पूर्वमेव आहतमतप्रभाकरनिनिधिभिराचार्यश्रीमल्लबादिक्षमाश्रमणपूज्यपादैर्वादिकेसरिभिर्विरचितस्य सिंहसूरगणिविरचितव्याख्यासमलङ्कृतस्य द्वादशविधविध्यादिभङ्गात्मकस्य नयचक्रशास्त्रमितिप्रसिद्धस्य ग्रन्थस्य विधिभङ्गविधिविधिभङ्गात्मकं प्रथमं सम्पुटं समुपस्थापितमेव, सम्प्रति भङ्गचतुष्टयात्मकमपरं सम्पुटं समुपस्थाप्यते, एवं सम्पुटद्वयेन षड्भङ्गा द्रव्यार्थिकाः सान्तराः संस्कृताः प्रकाशिताश्च ।
एतस्यापि सम्पुटस्य संशोधनाय मया सुचारुनयचक्रप्रतिकृत्यन्तरलाभाकांक्षया नेतस्ततो भाण्डागारानुद्दिश्य शास्त्रेऽत्र समुपन्यस्यमानकारिकास्थानविशोधनार्थं नानाभाषाविद उद्दिश्य च प्रधावितम् , मत्समीपवर्तिप्रतिकृत्यपेक्षयाऽन्यस्याः परिशुद्धायाः प्रतिकृतेः न वाप्युपलब्धिरिति निश्चयात्, पूर्वसम्पुटापेक्षया चास्मिन् सम्पुटे मत्परिशोधितं मूलं पूर्ववत् पृथक् स्थूलाक्षरैर्विन्यस्तम् , क्वचिन्मूलानुपलम्भे तु तत्स्थानं रिक्तं कृतम्, ततश्च समीकृता व्याख्या मध्यमाक्षरैर्मूलस्याधः प्रत्यनुसारेण यथावद्विन्यस्ता, तत्र क्रोशमध्ये मया योजितान्यक्षराणि प्रदर्शितानि, उदाहृतानां वचनानां स्थानानि यावन्मत्परिज्ञानं प्रदर्शितानि, अन्यथा क्रोशमध्ये स्थान रिक्तं कृतम्, ततश्च मत्कृता विषमपदविवेचनीव्याख्या सूक्ष्माक्षरैष्टीकाधो विन्यस्ता, ततश्च टीकायां मत्सं. शोधितस्थाने प्रतिधूपलभ्यमानः पाठभेदः सर्वाधः प्रदर्शितः, तत्र 'क' शब्देन श्रीमद्विजयकमलसूरीश्वरभाण्डागारस्था प्रतिः 'सि' शब्देन श्रीमद्विजयसिद्धिसूरीश्वराणां कृपया समधिगता प्रतिः 'क्ष' पदेन क्षमाभद्रसूरिभाण्डागारगता प्रतिर्विज्ञेया, यस्यां प्रता यावान् पाठो नास्ति तावान् पाठः 'xXx' इति चिह्नाभ्यां निदर्शितः ।
___ अथावशिष्टाः पर्यायार्थिकाः सान्तराः षडरा यथावकाशमने प्रकाश्यतामुपयास्यन्ति, ततश्च नयचक्रतद्व्याख्यातत्कर्तृणां समालोचनात्मकः परिशिष्टो भाग इति सम्पुटचतुष्टयात्मकं नयचक्रशास्त्रसंस्करणं मदीयं पूर्णतामधिगमिष्यतीति साम्प्रतमेव निवेदयितुमुत्सहे यतो वाचका मदीयकार्यगत्या परिचिता भवन्त्विति । अत्र विध्युभयभङ्गेन पुरुषादितत्त्वमवस्थानामवस्थास्वतत्त्वं पुरुषादेवी न सम्भवतीति महता विचारेण पुरुषादिवाद प्रत्यस्य सेश्वरसांख्यमतं व्यवस्थाप्यते, सदृशपरिणतिरूपं सामान्यमत्र मते शब्दार्थः, पृथक् सर्वे पदं वाक्यम् , सङ्ग्रहदेशो द्रव्यार्थनयो द्रव्यमपि गुणसन्द्रावलक्षणमिति निरूपितम् , विधिनियमभङ्गेन प्रकृतिपुरुषयोः परस्परात्मताऽनापत्तौ कर्मफलसम्बन्धो न स्यात् , ईश्वरत्वमपि प्रवर्त्यपुरुषकर्मकृतमेव सर्वप्राणिनाम् , एवश्चात्मनैवात्मनः कार्यकारणत्वात् सर्वमेकमेकञ्च सर्वमिति कर्मवादो द्रव्यक्रिययोश्च द्रव्येणैव द्रव्यं क्रियत इत्येवं प्रधानोपसर्जनभावः, द्रव्यमेव शब्दार्थः, पृथक् सर्व पदं वाक्यार्थः, सङ्घहैकदेशो द्रव्यार्थः, द्रवतीति कर्तसाधनो द्रव्यशब्दः, इति व्यवस्थापितम् , उभयनयभङ्गेन द्रव्यक्रिययोः प्रधानोपसर्जनभावेऽक्रियावादभावापत्तिरिति द्रव्यभावी प्रधानावेव तत्त्वमिति वैयाकरणमतं व्यवस्थापितम् , तथा शब्दार्थोऽपि द्रव्यक्रिये, आख्यातशब्दो वाक्यं, नैगमदेशो द्रव्यार्थः, कर्तृसाधनाविनाभाविभावसाधनो द्रव्यशब्दो द्रव्यक्रियात्मद्यर्थ इति प्रतिपादितम् , विधिनियमविधिभङ्गेन च द्रव्यक्रिययोः परस्परानपेक्षखातंत्र्ये उत्पत्तिस्थितिविनाशानामनुपपत्त्योत्पत्त्यादिशून्यस्य खपुष्पवदभावापत्तेः स्वतः
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org