SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ यद्ग्रहणपरिणत्या जाता धीस्तस्य वेदिनी । निराकाराऽपि तेनार्थः प्रत्यक्षेणैव सिध्यति ॥ १ ॥ अशुद्धजन्यं स्वापादौ नार्थं तूज्झति शुद्धजम् । एकोपलम्भनियमः स्वाभासज्ञानजन्मतः ||२|| सदृशा-ऽसदृशग्राह्यग्राह्यवाय: प्रपद्यते । इन्द्रियैर्जनितत्वेनाऽऽलोचनेव प्रमाणताम् ॥३॥ नासत्यः प्रत्ययः शाब्दोऽस्खलनाद् वञ्चनं समम् । सर्वार्थवाचकत्वेऽपि बुद्धिः कारणमीक्षते ||४|| येयं गतिः स्थितिर्वा द्रव्याणामन्यकारणायोगात् । धर्माधर्मकृते ते अवगाहो व्योमहेतुस्तु ॥ कायः प्रदेशबाहुल्यं भावांशैस्तदणोः पुनः । उत्पाद-व्यय- ध्रौव्याणां यद्वा कायः समुच्चयः || १ || अर्थक्रिया हि नैकान्तनित्यानित्येषु युज्यते । सदाभावप्रसङ्गः स्यान्नासतो हेतु - कार्यते ॥२॥ प्रमाणानुपपत्तिर्या तद् विरोधस्य लक्षणम् । न खल्वन्यत् ततस्ताप शीतयोरपि लक्ष्यते || ३ || - उत्पाद - व्यय - ध्रौव्याणां सतामेकत्र नास्ति सा । अतश्च सदसद्रूपमेकमप्युपपद्यते ॥४॥ Jain Education International 2010_05 For Private & Personal Use Only पृ. १७ पृ. १७ पृ. १७ पृ. १७ पृ. १९ पृ. २२ पृ. २२ पृ. २२ पृ. २२ 25 www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy