________________
द्वितीयं परिशिष्टम्
द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् 'एकद्रव्याणि' इतिवचनस्य, पर्यायार्थादेशाद् बहुत्वप्रतिपत्तेः ।” इति तत्त्वार्थश्लोकवार्तिके ५/६, पृ. ३९६ ३९७ ॥
'आ आकाशादेकद्रव्याणि [तत्त्वार्थ. ५/६ ] एकशब्दः संख्यावचनः | २| ....... तत्सम्बन्धाद् द्रव्यशब्दस्यैकवचनप्रसङ्ग इति चेत्, न, धर्माद्यपेक्षया बहुत्वसिद्धेः ।३। एकैकमित्यस्तु लघुत्वात् |४| अत्र कश्चिदाह - 'आ आकाशादेकैकम्' इत्येव तावदस्तु सूत्रम्, कुतः ? लघुत्वात् । कथं द्रव्यगतिः ? प्रसिद्धत्वाद् द्रव्यगतिः ॥५॥ धर्मादीनि षड् द्रव्याणि इति प्रसिद्धम्, अतो द्रव्यगतिर्भवति । तस्मादनर्थकं द्रव्यग्रहणमिति । न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् | ६| न वानर्थकम् । किं कारणम् ? द्रव्यापेक्षया एकत्वख्यापनार्थत्वात् ।" इति तत्त्वार्थराजवार्तिके ५/६, पृ.४४५ ।
पृ. १५७
पं. ६
कायः प्रदेशबाहुल्यम् I तुलना- 'कायग्रहणं प्रदेशावयवबहुत्वार्थमद्धासमयप्रतिषेधार्थं च" इति तत्त्वार्थभाष्ये ५ | १ | "अजीवकाया धर्माधर्माकाशपुद्गलाः [तत्त्वार्थ.५1१] अजीवनादजीवाः स्युरिति सामान्यलक्षणम् । कायाः प्रदेशबाहुल्यादिति काला विशिष्टता ||२||” तत्त्वार्थश्लोकवार्तिके, पृ. ३९२ ॥
२३२
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org