SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १४ आमुखम् मुनिधर्मघोषविजयश्च अनेकविधेषु कार्येषु महद् महद् महत् साहायकमनुष्ठितवन्तः । ___ एवमेव मम मातुः साध्वीजीश्रीमनोहरश्रियः शिष्यायाः साध्वीश्रीसूर्यप्रभाश्रियः शिष्यया साध्वीश्रीजिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्। आदरियाणाभिजनेन जितेन्द्रभाई मणिलाल संघवी महोदयेन मांडलाभिजनेन अशोकभाई भाईचंद संघवी महोदयेन एतन्मुद्रणादिव्यवस्था महता परिश्रमेण विहिता । अमदावादनिवासिनां 'श्रीपार्श्व कोम्प्युटर्स' सञ्चालकानां अजयभाई चिनुभाई महोदयानां सम्बन्धिना विमलकुमार बिपिनचन्द्रेण अस्य कोम्प्युटर द्वारा मुद्रणं विहितम् । एतेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादा वितीर्यन्ते । देव-गुरुप्रणिपातपूर्वकं प्रभुपूजनम्- परमकृपालूनां परमेश्वराणां देवाधिदेवश्रीशवेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैव संपन्नं कार्यमिदमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय इह जिनालये मूलनायकरूपेण विराजमानस्य भगवतः श्री आदिनाथस्वामिनः श्री चिन्तामणिपार्श्वनाथस्वामिनश्च तथा शासनाधिपतेः श्री महावीरस्वामिनः करकमलेऽद्य श्री गौतमस्वामिगणधरादिदीक्षादिने जिनशासनस्थापनादिने च भक्तिभरनिर्भरेण चेतसा भगवद्वचनात्मकमेतमेव पुष्परूपं ग्रन्थं निधाय मया प्रभुपूजनं विधीयते । श्री चिन्तामणिपार्श्वनाथजैनमंदिर ऋषिकेश राजमार्ग, भूपतवाला, हरिद्वार, पीन-२४९ ४१० (उ.प्र.) विक्रम संवत् २०५६, वैशाखशुक्ल एकादशी गौतमगणधरादिदीक्षादिनम् ता.१४-५-२००० रविवार पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकार पूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपादगुरुदेवमुनिराजश्री भुवनविजयान्तेवासी मुनि जम्बूविजयः Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.002580
Book TitleDravyalankara
Original Sutra AuthorN/A
AuthorRamchandra, Gunchandra, Jambuvijay
PublisherL D Indology Ahmedabad
Publication Year2001
Total Pages318
LanguageSanskrit, English
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy