________________
कीर्तिकलाच्याख्याविभूषितः
सोऽवश्यं गायति नृत्यति, रज्यति चेति भावः । चैत्यपादपे भ्रमरा गुञ्जन्ति, पत्राणि मन्दपवनैरान्दोल्यन्ते, रक्तश्चाऽसावशोकस्तव प्रातिहार्य निर्वाहयति पुण्यसम्भारलब्धतया मोदमान इति हृदयम् ॥१॥ __द्वितीयं प्रातिहार्यमाहआयोजनं सुमनसोऽधस्तान्निक्षिप्तबन्धनाः । जानुनीः सुमनसो देशनोा किरन्ति ते ॥२॥ ___ आयोजनमिति—सुमनसः देवाः, ते वीतरागस्य, देशनोाम् = देशनायाः दिशतस्तवाऽधिष्ठानभूतत्वाद्देशनासम्बन्धिन्याम् , ऊर्ध्याम्=भूमौ, समवसरण इति यावत् । आयोजनम् योजनाद् आ, योजनमभिव्याप्येत्यर्थः । समवसरणभूमेर्योजनप्रमाणत्वादिति भावः । जानुदघ्नीः-जानुरूर्वमानं यासां तास्तादृशीः, जानुमानोच्छ्राया इत्यर्थः । अधस्तानिक्षिप्तवन्धना: अधस्ताद्यथास्यातथा निक्षिप्तानि विन्यस्तानि बन्धनानि वृन्तानि यासां तास्तादृशीः, यथा वृन्तानां काठिन्यात्कमलकोमलपादपीडा मा भूदिति भावः । सुमनसः पञ्चवर्णपुष्पाणि, किरन्ति-आस्तृणन्ति । एतज्जगदद्भुतं तव प्रभावातिशय इति भावः ॥२॥
तृतीयं प्रातिहार्यमाहमालवकैशिकीमुख्यग्रामरागपवित्रितः । तव दिव्यो ध्वनिः पीतो हर्षोद्ग्रीवै मृगैरपि ॥३॥
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org