________________
श्रीवीतरागस्तवे प्रथमः प्रकाशः
-
-
-
-
दुर्जनाः, तवाज्ञाविराधकत्वात्क्षुद्रशत्रुभूताः परवादिनश्च, अधोमुखाः= नीचैर्मुखाः, एकत्र तादृशाद्भुतप्रभावादन्यत्र सदुपदेशादिना सत्सिद्धान्तेन च सत्पथं नीता अभिभूताश्च विनयाल्लज्जायाश्च नम्रमुखाः, स्युः, युक्तं चैतत् , तत्र प्रतिवस्तुपमामाह-तिग्मरोचिषः उग्रप्रतापस्य सूर्यस्य, तामसाः = तमसि भवा नक्तंचरास्तमःसमूहाश्च, सम्मुखीनाः = सम्मुखाः, भवेयुः किम् ?-नैव भवेयुरित्यर्थः । तद्वत्कण्टकास्तवाऽपि तथा नेत्यर्थः । भगवतो विहारे पादपीडाजनकाःकण्टकादयो देवैस्तथा स्थाप्यन्ते, यथा न विहरतःप्रतिकूलतेत्येवमुक्तिरिति बोध्यम् ॥६॥.
केशाद्यवस्थिताऽतिशयमाहकेशरोमनखश्मश्रु तवाऽवस्थितमित्ययम् । बाह्योऽपि योगमहिमा नाऽऽसस्तीर्थकरैः परैः · ॥७॥
केशेति- तव, केशरोमनखश्मश्रु=केशाश्च रोमाणि च नखाश्च श्मश्रूणि कूर्चानि च, तेषां समाहारः । प्राण्यङ्गत्वादेकत्वम् । अवस्थितम् अन्यूनाधिकस्थिति, दीक्षाकाले यावदेतत्तावदेव स्थितमित्यर्थः । भवतीति शेषः । इत्ययम् उक्तप्रकारः, बाह्यः= शरीरबहिर्देशभवोऽपि, अपिनाऽन्तरङ्गस्य योगमहिम्नस्तु कथैव केति सूच्यते । योगमहिमा चारित्रमाहात्म्यम् , परैः त्वदन्यैः, तीर्थ. करैः बुद्धादिभिः, नाऽऽप्त: न लब्धः, तव योगमहिम्नैव प्रेरितैः देवैस्तव केशादीनां तथास्थिति विधीयते, न तु परेषां बुद्धादीन
Jain Education International 2010_Bor Private & Personal Use Only
www.jainelibrary.org