SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कीर्तिकलाव्याख्याविभूषितः यत्वाध्यवसायमूला चोत्प्रेक्षा ॥४॥ समवसरणप्राकारत्रयं वर्णयन्नाह - त्वयि दोषत्रयात्त्रातुं प्रवृत्ते भुवनत्रयीम् । प्राकारत्रितयं चक्स्त्रयोऽपि त्रिदिवौकसः ॥५॥ त्वयीति - त्वयि भुवनत्रयीम् = तात्स्थ्यात्ताच्छब्द्यन्यायेन भुवनत्रयीस्थजन्तून्, दोषत्रयात् = कायिकवाचिकमानसिकरूपाद् दुरितत्रयादाधिभौतिकादिदु:खत्रयाद्वा, त्रातुम् = परिरक्षितुम् प्रवृत्ते = उद्यते सति, उपदेशादिनेति भावः । त्रयः - चौमानिकज्यौतिषिक भवनपतयः, अपिना नत्वेक एवेति सूच्यते । त्रिदिवौकसः = देवाः, प्राकारत्रितयम् समवसरणप्राकारत्रयं मणिस्वर्णरजतमयम्, चक्रुः = विचक्रुः, मन्ये इत्यर्थबलाल्लभ्यते । अभिव्याप्त्या पालनं यथा स्यादिति पाल्यसख्यया प्राकारनिर्माणमिति भावः । समवसरणे देवैः प्राकारत्रयं विक्रियत इत्येवमुक्तिः । भुवनत्रयपालको बीतराग इति ध्वनिः ॥५॥ विहारसौविध्याऽतिशयमाह - अधोमुखाः कण्टकाः स्यु धीत्र्यां विहरतस्तव । भवेयुः सम्मुखीनाः किं तामसास्तिग्मरोचिषः ॥६॥ अध इति — तव, धात्र्याम् = पृथिव्याम्, विहरतः सतः, कण्टकाः = तत्पदवाच्या स्तीक्ष्णायाः प्रसिद्धाः, कण्टकवत्पीडाकरत्वा = ३१ Jain Education International 2010_dor Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy