SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५६ श्रीवीतरागस्तवेऽष्टादशः प्रकाशः ताशयुक्तेरभावात् , क्वाऽप्यदृष्टश्रुतत्वात् । एवं च देवेषु ये गुणाः परेषां प्रसिद्धास्तद्गुण एव देवत्वेन प्रतिष्ठाप्यः, तेषां तथैव व्याप्तिग्रहात् । भवति न तादृशो गुण इति न भवान् तैर्देवत्वेन प्रतिछाप्यः । तादृशगुणरहितस्य देवस्य तेषामदृष्टश्रुतत्वात् । एवञ्च लौकिकगुणवत्त्वात्तेषां देवा लौकिका एव प्राणिनः सति सम्भवे, भवांस्तु लोकोत्तरगुणत्वादलौकिको वस्तुतो देवः । अन्येषां तत्त्वेनाऽग्रहस्त्वज्ञानादेवेति भावः ॥ ७ ॥ परेषामज्ञत्वात्परीक्षाऽकिञ्चिकरेति निगूढं स्वाभिप्रायं प्रकटयन्नाह--- अथवाऽलं मन्दबुद्धिपरीक्षकपरीक्षणैः । ममापि कृतमेतेन वैयात्येन जगत्प्रभो ! ॥८॥ अथवेति-- जगत्प्रभो !, अथवेति पूर्वोत्तारुचौ, वस्तुत इत्यर्थः । तदेवाह-मन्दबुद्धिपरीक्षणैः मन्दबुद्धीनामज्ञानां वस्तुतस्वग्रहणदरिद्राणां परीक्षकाणां परीक्षणैः पालोचनैः, अलम्=पर्यातम् , मुधा तानि परीक्षणानीत्यर्थः । अज्ञानां परीक्षया वस्तुतत्त्वनिर्णयस्याऽग्रामणिककल्पितत्वादनुपादेयत्वादिति भावः । ननु तर्हि त्वया किमर्थ तदुपन्यासःकृत इति चेत्तत्राह-ममाऽपि तत्पक्षोद्भावनप्रवृत्तस्य मम, अपिः समुच्चये । एतेन तदीयपक्षमुपन्यस्य भवति हीनगुणत्वप्रतिपादनेन स्तुतिव्याजप्रवृत्तेन, वैयात्येन-वियातोधृष्टः, अविनयीत्यर्थः, तस्य भावस्तेन, धृष्टतया । पूज्ये हि Jain Education International 2010_For Private & Personal Use Only www.jainelibrary.org
SR No.002579
Book TitleKirtikala
Original Sutra AuthorHemchandracharya
AuthorMunichandrasuri
PublisherSha Bhailal Ambalal Petladwala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy