________________
१५६
स्वनिर्णयप्रवृत्तैः परैः प्रेक्षावद्भिः, देवत्वेन = देवभावेन, स्विमि सम्बध्यते, कथंनाम-केनप्रकारेण खलु, प्रतिष्ठाप्यः - समर्थनीयः; नैव प्रतिष्ठाप्य इत्यर्थः । देवधर्माणामभावाद्धर्ममन्तरेण धर्मिणः सद्भावस्याऽसम्भवादिति यावत् । परे हि स्वदेववैशिष्ट्यं भवत्य लभमाना भवन्तं देवं न मन्यन्ते । वस्ततस्तु ते परीक्षका अज्ञानिन इति प्राकृतजनोचितचरितं देवं मन्वाना भ्रान्ता:, देवस्तु वीतरागत्वाद्भवानेव, लोकोत्तरगुणो हि देव इति भावः ॥ ६ ॥ परैः कृतायां वीतरागस्य देवत्वाऽप्रतिष्ठायां युक्त्युपन्यासव्याजेन परेष्टदेवानां लौकिकत्वं वीतरागस्याऽलौकिकत्वं च
भङ्गचाऽऽह
कीर्तिकला ब्याख्याविभूषितः
अनुश्रोतः सरत्पर्णतृणकाष्ठादि युक्तिमत् । प्रतिश्रोतः श्रयद्वस्तु कया युक्त्या प्रतीयताम् ? ॥७॥ अन्विति – भगवन् !, पर्णतृणकाष्ठादि = पण पत्र तृणं काष्ठम्, आदिना तादृशं वस्त्रादि, वस्तु = पदार्थः, अनुश्रोतः श्रोत: प्रवाहः, " श्रोतोऽम्बुसरणं स्वत " इत्यमरः । तदनुसारेण, प्रवाहानुकूल्येनेत्यर्थः । सरत् = तरत् प्रवहमानमित्यर्थ । युक्तिमत् = युक्तियुक्तम्, प्रत्यक्षेण भूयस्तथा दृष्टत्वादनु श्रोतस्तृणादिसरणे व्याप्तिग्रहादिति भावः । किन्तु, प्रतिश्रोतः = प्रवाह प्रातिकूल्येन, प्रवाहाभिमुखमित्यर्थः श्रयत् = सरत्, वस्त्विति सम्बध्यते । कया युक्तया प्रतीयताम् १ = न कयाऽपि युक्त्या तत्प्रत्येतव्यमित्यर्थः ।
"
Jain Education International 2010_dor Private & Personal Use Only
=
www.jainelibrary.org