________________
श्रीवीतरसातवे मोदछः प्रकाशः
अराजसाय ब्रह्मणे कस्मैचिद्भवते नमः ॥४॥
अभवायेति--अभवाय न भवः शिवः, तथा न भवो जन्म तद्धेतोः कर्मयः साकल्येन नाशाद्यस्य स तारशः । तस्मै, भवभिन्नाय जन्मजरापरिग्रहादिरहिताय च । भवो हि दारपरिग्रहादिविशिष्ट इति तद्भिन्नो भगवानिति भावः । अतएव, महेशाय-महान् सर्वोत्कृष्ट ईश:सहजाद्यैश्वर्यशाली, तस्मै । अथ च शिवाय । " व्योमकेशो भवो भीमः", "शिवःशूली महेश्वर" इति चामरः । यो न भवः स न महेश इति विरोध: पक्षान्तरेण परिहरणीयः । तथा, अगदाय-गदो रोग स्तद्रहिताय, अथ च गदाख्यशस्त्ररहिताय, तथा, नरकच्छिदे-मुक्तिमार्गोपदेशेन भव्यान नरकविनाशनाय, अथ च नरकासुरहन्त्रे विष्णवे । अत्र यो नरकच्छिद्विप्णुः, स कथं गदारहितः स्यात् , तस्य सर्वदा गदाधरत्वादिति विरोधः। अर्थान्तरेण तु तत्परिहारः । तथा, अराजसाय= रजोगुणशून्याय, शुद्धसत्त्वात्मने इनि यावत् , तथा, ब्रह्मणे = सिद्धरूपेणाऽक्षरस्वरूपाय । यदुक्तम्-" अक्षरं ब्रह्म परमम् " इति “ अहमित्यक्षरं ध्येयमि" ति च । अथ च विधये, “स्रष्टा प्रजापतिबंधा विधाता विश्वसृड्विधिः", " ब्रह्मात्मभूरि" ति चामरः । ब्रह्मा हि रजोगुणमालम्ब्यैव जगत्सृजतीति यो न राजसः स कथं ब्रह्मेति विरोधः । परिहारस्तुक्त एव । तादृशाय, भवते तुभ्यं वीतरागाय, कस्मैचित् = विरोधाभासिगुणात्मकत्वादनिर्वचनीयस्वरूपाय,
Jain Education International 2010_Bor Private & Personal Use Only
___www.jainelibrary.org