________________
पञ्चविंशं यज्ञीयाध्ययनम्
३८१ व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैः, वेति पूर्ती, यथाग्निर्यत्तदोनित्यसम्बन्धात् तथा महितः पूजितोऽस्ति । सदा कुशलैस्तत्त्वज्ञैः सन्दिष्टं कथितं, तं वयं बूमो ब्राह्मणम् ॥१९॥ कुशलसन्दिष्टस्वरूमाह
जो ण सज्जइ आगंतुं, पव्वयंतो न सोयई ।
रमए अज्जवयणंमि, तं वयं बूम माहणं ॥२०॥ व्याख्या-यो न स्वजति नाभिष्वङ्गं करोति, आगन्तुं बहुभ्यो दिनेभ्यः प्राप्त स्वजनादिकं प्रति, यद्वा स्वजनादिस्थानं प्रति स्वयमागत्य यस्तस्मै आलिङ्गनं न ददाति । तथैव यः प्रव्रजन् स्थानान्तरं विदेशं वा गच्छन्न शोचते, यथाहं कथमेतं स्वजनादिकं विना विदेशे भविष्यामि ? अत एव रमते आर्यवचने तीर्थकरप्रणीतागमे । यद्वा यो न सज्जत्यागन्तुं निवर्तितुं प्रव्रज्यापर्यायाद् गार्हस्थ्यपर्यायं प्रति, प्रव्रजंश्च प्रव्रज्यां गृहंश्च यो न शोचते न खिद्यते, किन्त्विदमेव नृजन्मफलमिति मन्वानो निःक्रमेत् । निःक्रम्य च केवलं जिनवचने एव यो रमते, तं वयं ब्राह्मणं ब्रूमः, एवं व्याख्याद्वयेऽपि ब्राह्मणस्य निःस्पृहतैवोक्ता ॥२०॥
जायरूवं महामत्थं( जहामटुं), निद्धंतमलपावगं ।
रागद्दोसभयातीतं, तं वयं बूम माहणं ॥२१॥ व्याख्या-जातरूपं स्वर्णमिव स्वर्णं, यः, कीदृक् सन् ? 'महामत्थति मः अलाक्षणिकः, महान् अर्थः कर्मविषघातरूपोऽस्येति स महार्थः, जातरूपस्याप्यर्थो विषघातादिः, निर्मातं निर्दग्धं मल इवात्मशुद्धिघाति पापकं येनासौ नितिमलपापकः, स्वर्णं तु प्राकृतत्वात् पावकेनाग्निना निर्मातो मलः किट्टयात्मकोऽस्येति पावकनितिमलं, स च रागद्वेषभयातीतः (पाठान्तरे-'जायरूवं जहामटुं' आमृष्टं तेजःप्रकर्षाय मनःशिलादिना परामृष्टं) अनेनास्य बाह्यगुण उक्तः, पावकनिर्मातमलं इत्यनेनान्तरः, ततो जातरूपवद्वाह्यान्तरगुणान्वितोऽत एव रागाद्यतीतो रागद्वेषभयातीतो यस्तं वयं ब्रूमो ब्राह्मणम् ।।२१।।
तवस्सियं किसं दंतं, अवचियमंससोणियं ।
सुव्वयं पत्तनिव्वाणं, तं वयं बूम माहणं ॥२२॥ व्याख्या-तपस्विनं, अत एव कृशं दुर्बलं, दान्तं जितेन्द्रियं, अपचितमांसशोणितं शोषितमांसरक्तं, सुव्रतं सम्यगाचरणयुतं, प्राप्तनिर्वाणं कषायाग्निशमनेन प्राप्तसमाधि, तमेतं वयं ब्राह्मणं ब्रूमः ॥२२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org