SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ३८० श्रीउत्तराध्ययनदीपिकाटीका-२ तदा यज्ञः प्रस्तावाद्भावयज्ञः संयमरूपस्तदर्थी वेदसां यागानां मुखमुपायो वर्त्तते, ते सत्यादीनि हि सत्ये यज्ञार्थिनि प्रवर्त्तन्ते । नक्षत्राणां मुखं चन्द्रः, धर्माणां च काश्यप ऋषभदेवो मुखमुपायः, तस्यैवादितस्तत्प्ररूपकत्वात् । तथाचारण्यकं-"ऋषभ एव भगवान् ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि" । ब्रह्माण्डपुराणे चोक्तं-"इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः, केवलज्ञानलाभाच्च महर्षिणो ये परमेष्ठिनो वीतरागाः स्नातका निर्ग्रन्था नैष्ठिकास्तेषां प्रवर्तित आख्यातः प्रणीतस्त्रेतायामादौ" इत्यादि ॥१६॥ काश्यपस्यैव महात्मनो धर्ममुखत्वं समर्थयति जहा चंदं गहाईया, चिटुंती पंजलीउडा ।। वंदमाणा णमंसंता, उत्तमं मणहारिणो ॥१७॥ व्याख्या यथोत्तमं प्रधानं चन्द्रं प्रति ग्रहादिकाः कृतप्राञ्जलयो वन्दमानाः स्तुवन्तो नमस्यन्तो मनोहारिणोऽतिविनीततया प्रभुचित्ताक्षेपिणस्तिष्ठन्तीति सम्बन्धस्तथैनमुत्तमं श्रीऋषभदेवं प्रतीन्द्राद्या इत्युपस्कारः ।।१७।। इति चतुःप्रश्न्युत्तराण्युक्त्वा स्वपरात्मोद्धरणाख्यं पञ्चमं प्रश्नमाश्रित्याह अयाणगा जण्णवाई, विज्जामाहणसंपया । मूढा सज्झायतवसा, भासच्छण्णा इवग्गिणो ॥१८॥ व्याख्या-अज्ञा अतत्त्ववादिनो यज्ञवादिनस्तव पात्रत्वेन ये मताः, कासामज्ञाः ? विद्याब्राह्मणसम्पदा, विद्या आरण्यकब्रह्माण्डपुराणात्मिकास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदस्तात्विकब्राह्मणानां विद्यास्तदविज्ञत्वेनाऽज्ञाः, अन्यथा कथमेते बृहदारण्यकाद्युक्तदशविधधर्मज्ञा अपि यागमेवं कुर्युः ? अत एव मूढा मोहवन्तः, सुब्ब्यत्ययात् स्वाध्यायतपस्सु, तत्त्वतस्तत्स्वरूपाऽज्ञानाद्भस्मच्छन्ना अग्नय इव ते हि बहिरुपशमभा आभान्ति, अन्तश्च कषायवत्तया ज्वलिताः (पाठान्तरे-'गूढा सज्झायतवस्स'त्ति-गूढा बहिः संवृतिमन्तः स्वाध्यायतपसा वेदाध्ययनोपवासादिना) एवं च तत्त्वतस्त्वन्मतब्राह्मणानामात्मपरोद्धरणक्षमत्वं दूरापास्तम् ॥१८॥ को ब्राह्मणः पात्रमित्याह जो लोए बंभणो वुत्तो, अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ॥१९॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002569
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 02
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy