________________
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
५८१ व्याख्या-नारकाणां तु स्वे काये त्यक्ते सति उत्कृष्टं कालस्यान्तरमनन्तकालं भवति, जघन्यं चान्तर्मुहूर्तम् ॥१७०॥
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाइं सहस्ससो ॥१७१॥ व्याख्या-एतेषां नारकाणां वर्णतश्चैव गन्धतो रसत स्पर्शतः संस्थानादेशतश्चापि सहस्रशो भेदाः सन्ति ॥१७१॥
अथ पञ्चेन्द्रियतिरश्चां भेदनाह
पंचिंदिया तिरिक्खा य, दुविहा ते वियाहिया ।
समुच्छिमा तिरिक्खा य, गब्भवक्कंतिया तहा ॥१७२॥ व्याख्या-पञ्चेन्द्रियास्तिर्यञ्चश्च द्विविधा व्याख्याताः, सम्मूच्छिमास्तिर्यञ्चश्च ये मन:पर्याप्त्यभावात् सदा सम्मूच्छिता एव तिष्ठन्ति, गर्भव्युत्क्रान्तिकास्तथा ॥१७२।।
दुविहा ते भवे तिविहा, जलयरा थलयरा तहा ।
खहयरा य बोधव्वा, तेसिं भेए सुणेह मे ॥१७३॥ व्याख्या-ते द्विविधा अपि तिर्यञ्चस्त्रिविधा भवेयुः, यथा जलचराः स्थलचरास्तथा खचरा बोधव्याः , तेषां भेदान् 'मे' कथयत शृणुत ! ॥१७३॥
मच्छा य कच्छभा यावि, गाहा य मगरा तहा ।
सिसुमारा य बोधव्वा, पंचहा जलयराहिया ॥१७४॥ व्याख्या-मत्स्याश्च कच्छपाः, ग्राहास्तन्तुकजीवाः, मकरास्तथा सिसुमाराः, एवं पञ्चधा जलचरा आख्याता बोधव्याः, एषु पञ्चस्वपि बहुभेदानान्तर्भावो ज्ञेयः, यतो 'यावन्तः स्थलचरास्तावन्त एव जलचरा अपि' इत्युक्तेः ॥१७४।।
लोएगदेसे ते सव्वे, न सव्वत्थ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१७५॥ व्याख्या-ते सर्वे जीवा लोकैकदेशे जलाशयेष्वेव सन्ति, न सर्वत्र व्याख्याताः, इतोऽनन्तरं तेषां चतुर्विधं कालविभागं वक्ष्ये ॥१७५।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org