________________
५७९
षट्त्रिंशं जीवाजीवविभक्तिसंज्ञमध्ययनम्
रयणाइगुत्तओ चेव, तहा घम्माइ णामओ ।
इइ नेरड्या एए, सत्तहा परिकित्तिया ॥१५९॥ व्याख्या-रत्नप्रभादयो गोत्रतो ज्ञेयाः, तथा धर्मादयो नामतो ज्ञेयाः, इत्येवमेते नैरयिकाः सप्तधाः परिकीर्तिताः ॥१५९॥ अत्र क्षेत्रविभागमाह
लोगस्स एगदेसंमि, ते सव्वे उ वियाहिया ।
इत्तो कालविभागं तु, तेसिं वुच्छं चउव्विहं ॥१६०॥ व्याख्या-ते सर्वे नारका लोकस्यैकदेशे व्याख्याताः, इतोऽनन्तरं तेषां नारकाणां चतुर्विधं कालविभागं वक्ष्ये ॥१६०॥
संतई पप्पणाइया, अपज्जवसिया वि य ।
ठिइं पडुच्च साइया, सपज्जवसिया वि य ॥१६१॥ व्याख्या-सन्ततिं प्रवाहमाश्रित्य ते नारका अनादयोऽपर्यवसिताश्च, स्थिति प्रतीत्य च ते सादयः सपर्यवसिताश्च सन्ति ॥१६१।।
सागरोवममेगं तु, उक्कोसेण वियाहिया ।।
पढमाए जहन्नेणं, दसवाससहस्सिया ॥१६२॥ व्याख्या-प्रथमायां पृथिव्यामुत्कृष्टेनैकं सागरोपमायुःस्थितिः, जघन्यतश्च दशवर्षसहस्त्रिकायुःस्थितिर्व्याख्याता ॥१६२।।
तिन्नेव सागराउ, उक्कोसेण वियाहिया ।
दुच्चाए जहन्नेणं, एगं तु सागरोवमं ॥१६३॥ व्याख्या-द्वितीयायामुत्कृष्टतस्त्रीणि सागरोपमाणि, जघन्यतश्चैकं सागरोपममायुःस्थितिर्व्याख्याता ॥१६३॥
सत्तेव सागराउ, उक्कोसेण वियाहिया ।
तइयाए जहन्नेणं, तिन्नेव सागरोवमा ॥१६४॥ व्याख्या-तृतीयायामुत्कृष्टा सप्तसागरोपमस्थितिः, जघन्या च त्रीणि सागरोपमाणि स्थिति या ॥१६४।।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org