________________
५७८
श्रीउत्तराध्ययनदीपिकाटीका-२ व्याख्या-चतुरिन्द्रियाणां स्वकीये काये त्यक्ते सति पुनरन्यस्मिन् काये उत्पद्य पुनर्यदि चतुरिन्द्रियकाये उत्पद्यते तदोत्कृष्टमन्तरमनन्तकालं, जघन्यं चान्तर्मुहूर्तं ज्ञेयम् ॥१५३।।
एएसिं वण्णओ चेव, गंधओ रसफासओ ।
संठाणादेसओ वा वि, विहाणाइं सहस्ससो ॥१५४॥ व्याख्या-एतेषां चतुरिन्द्रियाणां वर्णतो गन्धतो रसतः स्पर्शत: संस्थानादेशतश्चापि सहस्रशो भेदाः सन्ति ॥१५४॥
अथ पञ्चेन्द्रियानाह
पंचिंदिया य जे जीवा, चउव्विहा ते वियाहिया ।
नेरइय तिरिक्खा य, मणुआ देवा य आहिया ॥१५५॥ व्याख्या-ये च जीवाः पञ्चेन्द्रियास्ते चतुर्विधा व्याख्याताः, नारकाः, तिर्यञ्चः, मनुष्याः, देवाश्च ॥१५५।।
नेरइया सत्तविहा, पुढवीसु सत्तसु भवे ।।
पज्जत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१५६॥ व्याख्या-रत्नप्रभादिषु सप्तसु नरकपृथ्वीषु सप्तधा नैरयिका भवेयुः, ते पुनः पर्याप्ता अपर्याप्ताश्च सन्ति, तेषां भेदान् 'मे' कथयतो यूयं शृणुत ! ॥१५६।। तासां स्वरूपमाह
रयणाभा सक्कराभा, वालुयाभा य आहिया ।
पंकाभा धूमाभा, तमा तमतमा तहा ॥१५७॥ व्याख्या-रत्नकाण्डस्य भवनपतिभवनस्याभा इव आभा यस्याः सा रत्नाभा १ शर्करा लघुपाषाणखण्डानि तदाभा २ तथैव वालुकाभा च ३ आख्याता, पङ्कसमपुद्गलाभा ४, धूमसमपुद्गलाभा ७, तमा अन्धकारमयी ६, तमस्तमा प्रकृष्टान्धकारमयी ७ तथा ॥१५७।। नामान्याह
घम्मा वंसगा सेला, तहा अंजणरिडगा।।
मघा माधवई चेव, णारया य पुणो भवे ॥१५८॥ व्याख्या-घा १ वंशका २ शैला ३ अञ्जना ४ अरिष्टा ५ मघा ६ माघवती ७ एवंविधनामयुताः सप्त नारका भवेयुः ॥१५८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org