________________
५५
द्वितीयं परीषहाध्ययनम् सूक्ष्मसम्पराये चतुर्दश, सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राऽभावात् । एकादश सयोगिकेविलिनि, वेद्यप्रतिबद्धानां तत्राऽभावात् ॥४५॥
अथाध्ययनार्थोपसंहार:
एए परीसहा सव्वे, कासवेणं पवेइआ ।
जे भिक्खू ण विहन्निज्जा, पुट्ठो केणइ कण्हुइ ॥४६॥ त्ति बेमि व्याख्या-एते परीषहाः सर्वे काश्यपेन श्रीवीरेण प्रवेदिताः प्ररूपिताः, यान् ज्ञात्वा भिक्षुविंशत्यन्यतरेण केनापि कुत्रचिद् देशे काले वा स्पृष्टो बाधितो न विहन्येत न संयमात् पात्येत, इति ब्रवीमीति सुधर्मा जम्बू जगाद ॥४६।।
इति द्वितीयं परीषहाध्ययननमुक्तम् ॥२॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org