SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १४८ श्रीउत्तराध्ययनदीपिकाटीका - १ स्त्वं जहासि, तथा तत्त्यागतश्चाऽसतोऽविद्यमानान् कामान् प्रार्थयसे यत्तदप्याश्चर्यं, अथवा कस्तवात्र दोषः ? सङ्कल्पेनोत्तरोत्तराऽप्राप्तभोगेच्छारूपेण विहन्यसे विविधं बाध्यसे, सद्विवेको हि न प्राप्तान् विषयानप्राप्ताकाङ्क्षया त्यजेत् यथा ब्रह्मदत्तचक्र्यादिः, सद्विवेकश्च भवानित्यादिर्हेतुकारणे ॥५१॥ , नमिः प्राह एयम निसामित्ता ऊकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमव्ववी ॥५२॥ व्याख्या- प्राग्वत् । कामा लंकामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा जंति दुग्गइं ॥५३॥ व्याख्या– देहान्तः प्रविष्टं तोमरादि शल्यमिव शल्यं, विविधबाधाकर्तृत्वात्, मनोज्ञाः शब्दादयः, यथाहि शल्यमन्तश्चलन् विविधबाधाकारि तथैतेऽपि । विषं तालपुटादि विषमिव विषं कामाः मुखमधुरायन्ति दारुणत्वात् । आस्यो दंष्ट्रास्तासु विषमस्यास्ती - त्यासीविषस्तदुपमाः, यथासीविषोऽज्ञैर्दृश्यमानः फणामणिना चारुरिव विभाव्यते, स्पृष्टश्च विनाशायैव स्यात्तथैतेऽपि कामाः, किञ्च कामान् प्रार्थयमानाः, अपिशब्दस्य लुप्तत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाऽभावात्, यान्ति दुर्गतिं नरकादिकां । तथा च सद्विवेकत्वमित्यनैकान्तिको हेतु:, प्राप्तस्याप्यपायहेतोर्विवेकिभिस्त्यज्यमानत्वात् । मुमुक्षूणां न क्वचिदाकाङ्क्षाभावादसत्कामप्रार्थना स्यादित्यसिद्धोऽपि ॥५३॥ भोगैस्तु दुर्गति: अहे वयइ कोहेणं, माणेणं अहमा गई । मायागइपडिग्घाओ लोहाओ दुहओ भयं ॥ ५४ ॥ व्याख्या - अधो नरके व्रजति क्रोधेन, मानेन चाधमा नीचा गतिः स्यात्, मायया गतेर्नृगतेः प्रतिघातो विनाशः स्यात्, लोभात् 'दुहओ'त्ति द्विधा ऐहिकं पारत्रिकं च भयं दुःखं स्यात् । कामप्रार्थनेऽवश्यं भाविनः क्रोधाद्यास्ते चेदृशास्ततः कथं तत्प्रार्थनातो न दुर्गति: ? ॥५४॥ उक्तो भोगत्यागो दशमः | १० | एवं बहुभिरप्युपायैस्तत्क्षोभनेऽशक्त इन्द्रःअवउज्झिऊण माहण-रूवं विउव्विऊण इंदत्तं । वंदइ अभिथुणंतो, इमाहिं महुराहिं वग्गूहिं ॥ ५५ ॥ For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002568
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorJaykirtisuri
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages350
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy