SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ हितोपदेशः । गाथा-४०८ - उत्तमगुणानां स्तुतिः ।। ३७९ सञ्चारित्रसुपर्वपर्वतशिरःप्राग्भारमारुह्य ये, मन्यन्ते स्म जगत्पतीनपि जिनान् मूढाः स्वतुल्यानिव । तस्मिंस्तेऽभिनिवेशलेशकुलिशच्छिन्ने जघन्याः पुनः नीचामेव गतिं गताः कृतधिया स्युः शोचनीयाः सदा ।।१।। अपि च - क्वचिदपि कलयन्ति नाप्तबुद्धिम्, विदधति पूज्यजनेऽवधीरणां च ।। जगदपि जनयन्ति पापरक्तं; दुरभिनिवेशवशंवदाः पुमांसः ।।२।। एवं च - अत्युत्तमान् गुणगणानिति दानमुख्यान्, द्वारेऽत्र दर्शितवत: परिशीलयन्तः । तत्सङ्गमेन सुभगे हृदि तद्विपक्षान्; दोषानलब्धनिलयान् गलहस्तयन्तः ।।३।। उदाराः शीलाढ्याः सुदृढतपसः शुद्धहृदया, विनीताः सर्वत्रोपकृतिकरणौचित्यचतुराः । विरुद्धं मुञ्चन्तः प्रकृतिनिरहङ्कारमनसः, कृतज्ञाः प्रज्ञाप्याः स्युरिह महनीयाः सुकृतिनः ।।४।। इति नवाङ्गवृत्तिकारसन्तानीय-श्रीरुद्रपल्लीय-श्रीमदभयदेवसूरिपट्टप्रतिष्ठित-श्रीदेवभद्रसूरिशिष्यावतंस-श्रीप्रभानन्दाचार्यसोदर्यपण्डित-श्रीपरमानन्दविरचित-हितोपदेशामृतविवरणे उत्तमगुणसङ्ग्रहाख्यं द्वितीयं मूलद्वारं समाप्तमिति ।।४०८।। श्रीः ।। + + + Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002567
Book TitleHitopadesh
Original Sutra AuthorN/A
AuthorPrabhanandsuri, Parmanandsuri, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy