________________
हितोपदेशः । गाथा-६१, ६२ - दया-हिंसयोः फलम् ।। प्राणिवधस्य फलम् ।।
दुरध्यवसायजनितान् प्राणिघातादवगच्छतेति ।।६।। पूर्वगाथोत्तरार्दोक्तमेवार्थं विशेषतो व्यनक्ति -
करचरणनयणसवणुट्ठघाणवियला विलीणलावना ।
जं 'उवजंति नरा तं पाणिवहस्स फलमसुहं ।।१।। तत् प्राणिवधस्य सत्त्वोन्मथनस्य, निखिलमपिफलं विपाकः । किंविशिष्टम्? अशुभंशुभेतरम्। यत् किम्? यदस्मिन् जगति एवम्प्रकारा नरा: प्राणिनः समुत्पद्यन्ते । तानेव विशि-नष्टिकरचरणनयनश्रवणौष्ठघ्राणविकला: हस्तपादनेत्रकर्णाधरनासिकाद्यवयवविरहिताः । अत एव विलीनलावण्या: विगलितलवणिमगुणाः, तदेतत् सर्वं प्राण्युपमर्दस्यावश्यं फलमिति ।।६।। एतदेव दृष्टान्तेन स्पष्टयति -
अचंतनिरणुकंपा काऊणं पाणिघायणं घोरं ।
जायंति मियापुत्तु ब्व भायणं तिक्खदुक्खाणं ।।६२।। केचिद् विवेकविकलितचेतसोऽत एवात्यन्तनिरनुकम्पा: सुतरां कृपाव्यपेतमनसः एवंविधाश्च कृत्वा विधाय प्राणिघातं जीववधं, किंविशिष्टं ? घोरं रौद्रं रौद्रध्यानानुबन्धि, ततश्च जायन्ते भवन्ति किम्भूताः? भाजनं पात्रं, केषां? तीक्ष्णदुःखानां दुःसहासुखानां । अत्रोदाहरणमाह - क इव? मृगापुत्र इव । मृगादेवीप्रसूतत्वात् मृगापुत्रनामा वक्ष्यमाणस्वरूपः । सम्प्रदायगम्यश्च मृगापुत्रव्यतिकरः, स चाऽयम् -
। प्राणिवधविपाके मृगापुत्रकथानकम् ।। तेणं कालेणं तेणं समएणं इहेव जंबुदीवे दीवे भारहे वासे मियग्गामनाम नयरे हुत्था । तस्स णं बहिया उत्तरपुरच्छिमे दिसी भागे नन्दणपायवे नामं उजाणे हुत्था । तत्थ सुहुमजक्खाययणे हुत्था । तत्थ णं मियग्गामे नयरे विजयनामखत्तियराया परिवसइ । तस्स णं मिया नाम देवी हुत्था । तासिं च मियापुत्ते नामं दारए हुत्था । जाइअंधे जाइमूए जाइबहिरे जाइपंगुले हुंडे । नत्थि णं तस्स हत्था वा पाया वा कन्ना वा
-
गाथा-६१ 1. उप्पज्जति पाठान्तरः ।। गाथा-६२ 1. स्था. १० ठा. / विपा. श्रु. १. सू. २/७ मध्ये मृगापुत्रस्य व्यतिकरो दृश्यते ।। 2. जाइअंधे त्ति - जात्यन्धो जन्मकालादारभ्यान्ध एव । 3. हुंडे य त्ति - हुण्डकश्च सर्वावयवप्रमाणविकलः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org