SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४५६ उत्तरज्झयणाणि-१ भवति यः स निर्ग्रन्थः । तत् कथमिति चेदुच्यते 'विभूसावत्तिए'त्ति विभूषां वर्तयितुं कर्तुं शीलमस्येति विभूषावर्ती स एव विभूषावर्तिकोऽत एव विभूषितशरीर: स्त्रीजनस्याभिलषणीयः प्रार्थनीयो भवति । 'तओ'त्ति ततस्तदभिलषणीयत्वत: ‘णमित्यलङ्कारे' तस्य स्त्रीजनेनाभिलष्यमाणस्य ब्रह्मचारिणोऽपि ब्रह्मचर्ये शङ्कादीति नवमं स्थानम् ॥९॥ णो सद्द-रूव-रस-गंध-फासाणुवाई हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-निग्गंथस्स खलु सद्द-रूव-रस-गंध-फासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसेज्जा, तम्हा खलु नो निग्गंथे सद्दाइअणुवाई हवइ से निग्गंथे । दसमे बंभचेरसमाहिठाणे भवति ॥१०॥ व्याख्या-शब्दो मन्मनादिः, रूपं चित्रादिगतं स्त्र्यादिसम्बन्धि, रसो मधुरादिः, गन्धः सुरभिः, स्पर्शः कोमलमृणालादिरेतान् रागहेतूननुपतत्यनुयातीत्येवंशीलः शब्दाद्यनुपाती नो भवति यः स निर्ग्रन्थः । तत् कथमिति चेदित्यादि सुगमम् । दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनम् ॥१०॥ भवंति एत्थ सिलोगा, तं जहा जं विवित्तमणाइन्नं रहियं थीजणेण य । बंभचेरस्स रक्खट्ठा आलयं तु निसेवए ॥१॥ व्याख्या-भवन्त्यत्रोक्त एवार्थे श्लोकाः पद्यरूपाः । तद्यथा-'जति सूत्रत्वाद् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यस्त्र्याद्यभावात् । अनाकीर्णस्तत्तत्प्रयोजनागतस्त्र्याद्यसङ्कलः । रहितस्त्यक्तोकालचारिणा वन्दन-श्रुतश्रवणाद्यर्थमागतेन स्त्रीजनेन चशब्दात् पण्डकैः षिङ्गादिपुरुषैश्च, कालाकालचारित्वविभागस्त्वेवमागमे "अट्ठमी-पक्खिए मुत्तुं वायणाकालमेव य । सेसकालयमयंतीओ नेयाओ अकालचारीओ" ॥१॥ ब्रह्मचर्यस्य रक्षार्थं पालनार्थं 'यत्-तदोनित्याभिसम्बन्धात् तमिति गम्यम्' आलयं उपाश्रयं 'तु पूरणे' निषेवते भजते ॥१॥ १. अष्टमी-पाक्षिके मुक्त्वा वाचनाकालमेव च । शेषकालमायान्त्यो ज्ञेया अकालचार्यः ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy