SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४५२ उत्तरज्झयणाणि-१ विवित्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे । नो इत्थी-पसु-पंडगसंसत्ताई सयणासणाई सेवित्ता हवइ । तं कहमिति चे आयरिय आहनिग्गंथस्स खलु इत्थि-पस-पंडग-संसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थि-पसु-पंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ॥१॥ __व्याख्या-कतराणीत्यादि प्रश्नसूत्रम्, इमानीत्यादि निर्वचनसूत्रं प्राग्वत् । तान्येवाह-तमित्यादि, तद् यथेत्युपन्यासे । विविक्तानि स्त्री-पशु-पण्डकैरनाकीर्णानि शयनासनानि 'उपलक्षणात् स्थानानि च' सेवेत भजेत यः स निर्ग्रन्थो द्रव्यभावग्रन्थरहितो भवति । इत्थमन्वयेनाभिधायाव्युत्पन्नानुग्रहार्थममुमेवार्थं व्यतिरेकेणाह । 'नो' नैव स्त्री-पशु-पण्डकसंसक्तानि शयनासनानि सेवितोपभोक्ता भवति । तदित्यनन्तरोक्तं केन प्रकारेणेति चेदेवं यदि मन्यसे, अत्रोच्यते 'निग्गंथस्स'त्ति निर्ग्रन्थस्य खलु निश्चितं स्त्र्यादिसंसक्तानि शयनासनादीनि सेवमानस्योपभुञ्जानस्य 'बंभयारिस्स'त्ति 'अपेर्गम्यमानत्वाद्' ब्रह्मचारिणोऽपि सतो ब्रह्मचर्ये शङ्का वा किमेताः सेवे उत नेति यद्वान्येषां शङ्का यथा किमसावेवंविधशयनासनाद्यासेवी ब्रह्मचार्युत नेति अथवात्मनः शङ्का स्त्र्यादिभिरपहृतचित्ततया मोहोदयतः कदाचिदेतदासेवने जिनैस्तत्परिहारो दोषो वोक्तो भविष्यति नवेत्येवंरूपा । काङ्क्षा वा स्त्र्याधभिलाषरूपा विचिकित्सा वा किमेतावत्कष्टानुष्ठानफलं भविष्यति न वा ? तद् वरमेतदासेवनमेवास्त्वित्येवंरूपा समुत्पद्येत जायेत । भेदं वा विनाशं 'चारित्रस्येति गम्यम्' लभेत, उन्मादं वा कामग्रहात्मकं प्राप्नुयात् । दीर्घकालिकं प्रभूतकालभाविरोगो दाहज्वरादिरातङ्कश्चाशुघाती शूलादिस्ततो द्वन्द्वो रोगातडूं भवेत् । सम्भवति हि स्त्र्याधभिलाषातिरेकतोऽरोचकत्वं ततो रोगादीनि । केवलिप्रज्ञप्ताद् धर्मात् श्रुतचारित्ररूपाद् भ्रश्येदधः पतेदतिक्लिष्टकर्मोदयात् । यस्मादेवं तस्मान्नो स्त्रीत्यादि सूत्रनिगमनं सुगममित्युक्तं प्रथमं स्थानम् ॥१॥ णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे । तं कहमिति चे आयरिय आह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेयं वा लभिज्जा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपन्नत्ताओ वा _Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy