________________
४४०
उत्तरज्झयणाणि-१ व्रजेरित्येवमुपदिश्य निगमयितुमाह-एतद् यन्मयोक्तं पथ्यं हितं महाराजेषुकार नामन् ! जानीहि । एतच्च न मया स्वमनीषिकयैवोच्यते, किन्त्विति एतन्मया श्रुतमवधारितं 'साधुभ्यः' इति गम्यमिति गाथार्थः ॥४८॥ एवं तद्वचनेन प्रतिबुद्धो भूपः, ततश्च यत् तौ चक्रतुस्तदाह
चइत्ता विउलं रज्जं काम-भोगे य दुज्जए । निव्विसया निरामिसा निन्नेहा निपरिग्गहा ॥४९॥ सम्मं धम्मं वियाणित्ता चिच्चा कामगुणे वरे ।
तवं पगिज्झऽहक्खायं घोरं घोरपरक्कमा ॥५०॥ अनयोक्ख्या -त्यक्त्वा विपुलं विस्तीर्णं राज्यं कामभोगांश्च दुस्त्यजान् दुष्परिहार्यान् निर्विषयौ शब्दादिविषयरहितावत एव निरामिषौ मुक्तधनाद्यभिष्वङ्गौ निःस्नेही निष्प्रतिबन्धौ निष्परिग्रहौ क्वचिदप्यकृताङ्गीकारौ ॥ सम्यग्धर्मं श्रुतचारित्रात्मकं विज्ञाय 'चिच्चा' त्ति त्यक्त्वा कामगुणान् शब्दादीन् वरान् प्रधानान् तपोऽनशनादि प्रगृह्याभ्युपगम्य यथाख्यातं येन प्रकारेणार्हदादिभिः कथितं घोरं दुरनुचरं घोरः कर्मरिपुं प्रति रौद्रः पराक्रमो धर्मानुष्ठानविषयसामर्थ्यात्मको ययोस्तौ । तथा देवीनृपौ तथैव 'कृतवन्ताविति शेषः' इति गाथाद्वयार्थः ॥४९-५०॥ अथ सर्वोपसंहारमाह
एवं ते कमसो बुद्धा सव्वे धम्मपरायणा । जंम-मच्चु-भउव्विग्गा दुक्खस्संतगवेसिणो ॥५१॥ सासणे विगयमोहाणं पुट्विं भावणभाविया ।
अचिरेणेव कालेणं दुक्खस्संतमुवागया ॥५२॥ अनयोर्व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो बुद्धानि । तथाहि-साधुदर्शनात् कुमारको भृगुपुत्रौ प्रतिबुद्धौ । तद्वचनात् तत्पितरौ । तदवलोकनात् कमलावती राज्ञी । ततोऽपि राजेषुकार इति । किम्भूतानि सर्वाणि ? धर्मपरायणानि धर्मैकनिष्ठानि जन्म-मृत्यु-भयेभ्य उद्विग्नानि त्रस्तानि । दुःखस्यान्तः पर्यन्तस्तद्गवेषकाणि ॥ पुनस्तद्वक्तव्यतामाह-शासने दर्शने विगतमोहानामर्हतां पूर्वमित्यन्यजन्मनि भावनयाभ्यासरूपया भावितानि वासितानि भावनाभावितान्यत एवाचिरेणैव स्वल्पनैव कालेन दुःखस्यान्तं मोक्षमुपागतानि प्राप्तानि । सर्वत्र प्राकृतत्वात् पुल्लिङ्गतेति ॥५१-५२॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org