________________
द्वादशं हरिकेशीयमध्ययनम्
३९५ व्याख्या-तपो बाह्याभ्यन्तरभेदभिन्नं ज्योतिरग्निर्भावेन्धनकर्मदाहकत्वात् । जीवो ज्योतिःस्थानं तपोज्योतिषस्तदाश्रयत्वात् । योगा मनोवाक्कायाः स्रुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोऽग्नेलनहेतवस्तत्र संस्थाप्यन्ते । शरीरं करीषाङ्गं तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात् तस्य । कर्मोक्तरूपमेधा इन्धनं तस्यैव तपसा भस्मीभावनयनात् । संयमयोगाः संयमव्यापाराः शान्तिः सर्वप्राणिविघ्नापहारित्वात् तेषाम् । 'होम' ति विभक्तिव्यत्ययात् होमेन जुहोमि 'तपोज्योतिरिति गम्यते' । ऋषीणां सम्बन्धिना प्रशस्तेन जीवोपघातरहितत्वेन सद्भिः श्लाघितेन सम्यक्चारित्रेणेति भावः ॥४४॥
अथ ते यज्ञस्वरूपमवधार्य स्नानस्वरूपं पिपृच्छव इदमाहुःके ते हरए के य ते संतितित्थे कहिंसि न्हाओ व रयं जहासि ? । आयक्ख णो संजय ! जक्खपूइया ! इच्छामु नाउं भवओ सगासे ॥४५॥
व्याख्या-कस्ते तव ह्रदो द्रहः ?, 'के य ते संतितित्थे' त्ति किं च 'ते' तव शान्त्यै पापोपशमनाय तीर्थं पुण्यक्षेत्रं शान्तितीर्थम् ? । 'कहिंसि न्हाओ व रयं' ति वाशब्दस्य भिन्नक्रमत्वात् कस्मिन् वा स्नातः शुचिभूतो रजः कर्म जहासि त्यजसि त्वम् ? । आचक्ष्व व्यक्तं वद नोऽस्माकं संयत ! यक्षपूजित ! । इच्छामोऽभिलषामो ज्ञातुं भवतः सकाशे समीपे इति ॥४५।।
मुनिराहधम्मे हरए बंभे संतितित्थे अणाविले अत्तपसन्नलेसे । जहिंसि न्हाओ विमलो विसुद्धो सुसीईभूओ पजहामि दोसं ॥४६॥
व्याख्या-धर्मोऽहिंसादिरूपो ह्रदः कर्मरजोऽपहन्तृत्वात् । ब्रह्म ब्रह्मचर्यं शान्तितीर्थं तदासेवनाद् राग-द्वेषोन्मूलनाच्च पापमलसम्भवाभाव इति शान्तितीर्थं किम्भूतम् ? अनाविलं मिथ्यात्वादिभिरकलुषम् । आत्मनो जीवस्य प्रसन्ना मनागप्यकलुषा पीताद्यन्यतरा लेश्या यस्मिस्तदात्मप्रसन्नलेश्यं तस्मिन् । 'जहिंसि न्हाओ' त्ति यस्मिन स्नातोऽतिशुद्धिभवनाद् विमलो भावमलरहितोऽत एव विशुद्धो निष्कलङ्कः सुशीतीभूतो रागाद्युपतापाभावेन सुष्ठ शैत्यं प्राप्तः प्रजहामि प्रकर्षेण त्यजामि दोषं कर्मेति ॥४६॥
निगमयितुमाहएयं सिणाणं कुसलेहि दिटुं महासिणाणं इसिणं पसत्थं । जर्हिसि न्हाया विमला विसुद्धा महारिसी उत्तमं ट्ठाणं पत्त ॥४७॥ त्ति बेमि ॥
_Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org