________________
३२४
उत्तरज्झयणाणि-१ किञ्च क्वचित् पुरे श्रेष्ठी वरुणाख्यो व्यधापयत् । ग्राव्णैकेनैव हस्तैकमितं देवकुलं कृती ॥६७॥ देवं चतुःकरं तत्र न्यस्यासौ नित्यमार्चयत् । देवार्चनं हि वार्धक्ये परं पारत्रशम्बलम् ॥६८॥ कथमेककरे देवकुले देवश्चतुष्कर: ? ।
इति पृष्टेऽन्यदा साऽऽख्यद् देवः स हि चतुर्भुजः ॥६९।। तथा
श्रेष्ठिनः क्वचिदेकस्य द्वे भार्ये पितुरालयात् । एका प्राप्तानि भूयांसि भूषणानि घटेऽक्षिपत् ।।७०॥ सप्तन्या दुःस्थवंश्यायाः साऽऽलोके शङ्कया घटम् । मुद्रितं न्यस्य सततं यान्त्यायान्ती ददर्श सा ॥७१।। अन्यदान्तरमासाद्य सपत्न्या तानि जहिरे । तथैवामुद्रयत् कुम्भं साऽऽयाता वेद तत्क्षणम् ॥७२।। अनुन्मुद्य घटं तानि कथमात्तानि वेद सा ।
तथैवान्येधुराहैषा सोऽभूत् काचमयो घटः ॥७३।। किञ्च
नृपकन्या गवाक्षस्था क्वापि जहे खचारिणा । मयाऽऽनेतुरसौ देया प्रतिज्ञामित्यधान्नृपः ॥७४॥ नैमित्तिको निमित्तेन ज्ञात्वोवाचोचितां दिशम् । रथकृद् रथमातेने पक्षिवद् गगनाध्वगम् ।।७५॥ एतौ सहस्रयोधश्च भिषक् चेत्यास्य तं रथम् । चत्वारोऽप्यनुविद्याभृद् ययुः प्रापुश्च तं क्रमात् ।।७६।। युद्धं विधाय साहस्रस्तं जघान खचारिणा । हन्यमानेन कन्याया असिना चिच्छिदे शिरः ॥७७।। भिषक् सञ्जीवनौषध्या क्षणात् कन्यामजीवयत् । निन्युश्चोपनृपं कन्यां तां सर्वेभ्योऽप्यसौ ददौ ॥७८॥ कन्याऽऽह यो मया साकं कर्ता श्वः काष्ठभक्षणम् । पत्न्यैकस्यैव तस्याहं भविता राजवंशजा ॥७९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org