SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ षष्ठं क्षल्लकनिर्ग्रन्थीयमध्ययनम् अथ क्षुल्लकनिर्ग्रन्थीयाख्यं षष्ठमारभ्यते । तत्रायं सम्बन्धः, प्रागध्ययने विरतानां पण्डितमरणमुक्तं ते च विद्याचरणसम्पन्ना एव विद्याचरणे तु निर्ग्रन्थगुणौ निर्ग्रन्थानां च स्वरूपं नियुक्तिकृता सप्रपञ्चमुक्तं तद्यथा__ "बैउस पुलाये कुसीला निग्गंथ सणायगा य नायव्वा । एएसिं पंचण्हं वि होइ विभासा इमा कमसो" ॥१॥ इत्यादिना, ततोऽपि सविशेषतरं च बृहट्टीकातो ज्ञेयं, निर्ग्रन्थाश्च ज्ञानिन एवेति तद्विपरीताज्ञानिस्वरूपमाह सूत्रकृत् जावंतऽविज्जापुरिसा सव्वे ते दुक्खसंभवा । लुप्पंति बहुसो मूढा संसारंमि अणंतए ॥१॥ व्याख्या-यावन्तोऽविद्या मिथ्यात्वोपहतकुज्ञानात्मिका तत्प्रधानाः पुरुषा अविद्यापुरुषाः । सर्वे ते दुःखसम्भवास्ते किमत्याह-लुप्यन्ते दारिद्र्यादिभिर्बाध्यन्ते बहुशो बहुवारं मूढा हिताहितविवेचनं प्रत्यसमर्थाः संसारे अनन्तके अविद्यमानान्तेऽनेन निर्ग्रन्थस्वरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावः । अविद्यायां सिद्धदत्तघटपुरुषदृष्टान्तः । तथाहि ग्रामीणः कोऽपि नि:शेषनिर्भाग्यजनशेखरः । कुर्वाण: कृषिकर्मापि दौस्थ्येनामुच्यतैष न ॥१॥ यं यं धनार्जनोपायं स चक्रे गतपुण्यकः । प्रयासादपरं तस्मान्न स प्राप फलं क्वचित् ॥२॥ विषादान्निर्गतो गेहाच्छ्न्यचेताः परिभ्रमणन् । क्षुत्तृषाद्यापदो लेभे न तु नामापि सम्पदः ॥३॥ ★ बकुश-पुलाक-कुशीला निर्ग्रन्थ-स्नातकाश्च ज्ञातव्याः । एतेषां पञ्चानामपि भवति विभाषेयं क्रमशः ॥१॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy