________________
२२३
चतुर्थमसंस्कृताख्यमध्ययनम् अनेकमित्यनेकविधं परुषविषमस्थानादिभेदं रूपमेषामित्यनेकरूपाः । श्रमणं चरन्तं संयमाध्वनि यान्तं स्पृशन्ति स्वानि स्वानीन्द्रियाणी गृह्यमाणतयेति स्पर्शाः शब्दादयस्ते स्पृशन्ति गृह्यमाणतयैव सम्बध्यन्ते । असमञ्जसं प्रतिकूलं यथा स्यात् 'चोऽवधारणे' स्पर्शस्यैव वा दुर्जयत्वाद् व्यापित्वाच्च तदुपादानं न तेषु स्पर्शेषु भिक्षुर्मनसोपलक्षणत्वाद् वाचा कायेन च 'पउस्से'त्ति प्रदुष्येत् । को भावः ? कर्कशसंस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेनेति न चिन्तयेन्न वा वदेन्न त्यजेत् तमिति ॥११॥
तथामंदा य फासा बहुलोहणिज्जा तहप्पगारेसु मणं न कुज्जा । रक्खिज्ज कोहं विणएज्ज माणं मायं न सेवेज्ज पयहिज्ज लोहं ॥१२॥
व्याख्या-मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः 'चः समुच्चये' स्पर्शाः प्राग्वच्छब्दादयो बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः 'तहप्पगारेसु'त्ति अपेर्गम्यत्वात् तथाप्रकारेष्वपि मृदुस्पर्शमधुररसादिषु लोभनीयेष्वपि मनो न कुर्याद् न निवेशयेदेवं च पूर्ववृत्तेन द्वेषस्यानेन च रागस्य त्याग उक्तः, स कथं स्यादित्यत आहरक्षेत् क्रोधं, विनयेत् स्फेटयेद् मानं, माया परवञ्चनात्मिकां न सेवेत न कुर्यात्, प्रजह्यात् परित्यजेल्लोभं तथा च क्रोधमानयोढेषात्मकत्वान्मायालोभयोश्च रागरूपत्वात् तन्निग्रह एव तत्परिहार इति भावः ॥१२॥
तम्हा समुट्ठायेत्यादि चरकादिष्वपि स्यादित्याहजे संखया तुच्छपरप्पवाई ते पिज्जदोसाणुगया परज्झा । एए अहमुत्ति दुगंछमाणो कंखे गुणे जाव सरीरभेउ ॥१३॥ त्ति बेमि ॥ ___ व्याख्या—ये इत्यनुक्तस्वरूपाः संस्कृता न तात्त्विकशुद्धिमन्तः, किन्तूपचरितवृत्तयोऽत एव तुच्छा निःसाराः परप्रवादिनः परतीर्थिकास्ते किमित्याह-प्रेमद्वेषानुगता रागद्वेषानुवर्तनपरास्तथाहि-सर्वथा संवादकेऽर्हद्वचने कदाग्रहान्निरन्वयोच्छेदैकान्तानित्यतादिकल्पनं न रागद्वेषाभ्यां विनेति भावः । अत एव 'परज्झा' परवशा रागद्वेषग्रहग्रस्ततया तत्तन्त्रास्ततः किमित्याह-एतेऽधर्महेतुत्वादधर्म इत्युल्लेखेन जुगुप्समान उन्मार्गप्रवृत्ता एते इति तत्स्वरूपमवधारयन् न तु निन्दन् निन्दायाश्च निषेधात् यदाह
"संतेहि असंतेहिं य परस्स किं जंपिएहि दोसेहिं ? ।
अत्थो जसो न लब्भइ सो य अमित्तो कओ होइ" ॥१॥ १. सद्भिरसद्भिश्च परस्य किं जल्पितैर्दोषैः ? । ___ अर्थो यशो न लभ्यते स चामित्रं कृतो भवति ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org