SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ द्वितीयं परीषहाध्ययनम् सहस्राणि समाः सप्तदशेति प्रमितायुषः । पञ्चविंशतिवर्षाणि रामस्य ज्ञानिताऽभवत् ॥२३१॥ निःशेषदोषमुक्तात्मा शारदार्कसमद्युतिः । शैलेषीमाप्य रामर्षिर्ददाहादृष्टसञ्चयम् ॥२३२॥ अष्टमृल्लेपनिर्मुक्तलघुनिश्छिद्रतुम्बकम् । जलाग्र इव लोकाग्रे गत्वाऽभून्निश्चलस्थितिः || २३३|| श्रुत्वा यौवतभोगलम्पटतया सौमित्रि - लङ्केशयो - र्घोरां श्वभ्रगतिं तयोरथ पुनस्तत्त्यागतः सद्गतिम् । ध्याने निश्चलतां विबुध्य दयितारूपोपसर्गैरपि श्रीरामस्य शिवार्थिनो भवत भोः ! स्त्रीरागरङ्गोज्झिताः || २३४ || इत्यष्टमस्त्रीपरीषहे श्रीरामचन्द्रकथा ||१७|| स्त्रीपरीषहश्च प्रायो नित्यमेकतत्र वसतः स्यादतो नैकस्थानस्थेन भाव्यम्, किन्त्वनियतचर्यायां यतितत्वमिति तत्परीषहमाह— एग एव चरे लाढे अभिभूय परीसहे । गामे वा नगरे वावि निगमे वा रायहाणि ॥ १८ ॥ व्याख्या — एक एव रागादिरहित एको वाऽसहायः प्रतिमाप्रतिपन्नादिः चरेदप्रतिबद्धविहारेण विहरेत् । लाढयति यापयत्यात्मानमेषणीयाहारेणेति लाढो देश्यत्वात् प्रशस्यः । अभिभूय निर्जित्य परीषहान् [ग्रामे वा नगरे वा अपिः पूरणे ] निगमे वा वणिग्निवासे राजधान्यां वा मडम्बाद्युपलक्षणमेतत् ॥१८॥ किञ्च असमाणो चरे भिक्खू नेव कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं अणिकेओ परिव्वए ॥१९॥ ८३ 'गोमे कुले व्याख्या– असमानो गृहिभिराश्रयामूच्छितत्वेनान्यतीर्थिकैश्चानियतविहारादिनाऽ सदृशश्चरेद् भिक्षुर्यतिर्नैव कुर्यात् परिग्रहं ग्रामादौ ममत्वधीरूपम् । यदाह – " वा नगरे व देसे । ममत्तभावं न कहिंचि कुज्ज" त्ति । असंसक्तो गृहस्थैरसम्बद्धोऽनिकेतस्त्यक्तगृहः परिव्रजेद् विहरेत् । एवमयं परीषहोऽध्यासितव्य इति नवमश्चर्यापरीषहः ॥१९॥ १. ग्रामे कुले वा नगरे वा देशे । ममत्वभावं न कुत्रचित् कुर्याद् इति । For Private & Personal Use Only Jain Education International 2010_02 www.jainelibrary.org
SR No.002565
Book TitleAgam 43 Mool 04 Uttaradhyayan Sutra Part 01
Original Sutra AuthorN/A
AuthorKamalsanyamvijay, Vajrasenvijay
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages500
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy