SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 20 संमतितर्कप्रकरणे, काण्ड-१, गाथा-२२-२५ बोध्याः । महार्घमूल्या अपि वैडूर्यादयो मणयो रत्नानि यदि विसंयुक्ताः पृथग्भूता भवेयुस्तर्हि । रत्नावलिव्यपदेशं रत्नावलि' इत्याख्यां न लभन्ते ।।२२ ।। तह णिययवायसुविणिच्छिया वि अण्णोण्णपक्खणिरवेक्खा । सम्मइंसणसदं सव्वे वि णया ण पावेंति ।।२३।। तथा निजकवादसुविनिष्टिाता अपि स्वपक्षप्ररूपणायां कुशला अपि सर्वेऽपि नया यदि अन्योन्यपक्षनिरपेक्षाः स्वेतरनयविषयापलापिनो भवेयुस्तर्हि सम्यग्दर्शनशब्दं ‘सुनयाः, प्रमाणम्' इत्येवंरूपं सम्बोधनं न प्राप्नुवन्ति ।।२३ ।। जह पुण ते चेव मणी जहा गुणविसेसभागपडिबद्धा । _ 'रयणावलि'त्ति भण्णइ जहंति पाडिक्कसण्णाउ ।।२४।। यदा पुनस्त एव मणयो रत्नानि यथा गुणविशेषभागप्रतिबद्धा गुणविशेषः सूत्रविशेषस्तस्य भाग एकदेशस्तेन प्रतिबद्धाः, एकसूत्रे गुणानुरूप्येण व्यवस्थिता 'रत्नावलि' इति भण्यते आख्यामासादयन्ति प्रत्येकसञ्ज्ञाष्टा स्वतन्त्रनामानि च परित्यजन्ति ।।२४ ।। तह सब्वे णयवाया जहाणुरूवविणिउत्तवत्तव्वा । सम्मइंसणसदं लहन्ति ण विसेससण्णाओ ।।२५।। तथा सर्वे नयवादा यथानुरूपविनियुक्तवक्तव्या यद् यदनुरूपं तत्र विनियुक्तं वक्तव्यमुपचारात्तद्वाचकः शब्दो येषां ते तथा अर्थात् सापेक्षतया स्वोचितस्थाने व्यवस्थिताः सम्यग्दर्शनशब्दं 'प्रमाणम्' इति नाम लभन्ते न विशेषसंज्ञाः पृथग्भूतस्वतन्त्रनामानि ।।२५ ।। इदं स्वीकरणीयम् - यथा पृथक् पृथक् स्थितानि रत्नानि 'रत्नावली' 'रत्नमाला' इत्यादि संज्ञां न लभन्ते, किन्तु वर्णसंस्थानादिक्रमेण गुणानुसारेण चैकेन दोरकेन ग्रथितानि 'रत्नावली' इति व्यपदेशं प्राप्नुवन्ति तथा सङ्ग्रहादयः सर्वे नया यदि परस्परनिरपेक्षास्तर्हि 'प्रमाणम्' संज्ञां न लभन्ते किन्तु स्वस्वोचितस्थाने सापेक्षतया व्यवस्थितेषु सत्स्वेव ‘प्रमाणम्' संज्ञां लभन्ते । अत्र नय-प्रमाणात्मकचैतन्यस्य प्रत्यक्षसिद्धत्वेप्यनेकान्तमनभ्युपगच्छन्तं प्रति व्यवहारसाधनाय दृष्टान्तोपादानं सार्थकं भवति ।।२२-२५।। Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002564
Book TitleSammatitarka Prakaranam Part 2
Original Sutra AuthorSiddhasen Divakarsuri
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2009
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy