________________
१८८
संमतितर्कप्रकरणे, काण्ड-३, गाथा-३७
नान्यथेति प्रथमतन्तुप्रवेशादारभ्यान्त्यतन्तुसंयोगावधिं यावद् उत्पद्यमानं प्रबन्धेन तद्रूपतयोत्पन्नम्, अभिप्रेतनिष्ठारूपतया चोत्पत्स्यत इत्युत्पद्यमानम् उत्पन्नमुत्पत्स्यमानं च भवति, एवमुत्पन्नमपि उत्पद्यमानमुत्पत्स्यमानं च भवति, तथोत्पत्स्यमानमपि उत्पद्यमानमुत्पन्नं चेत्येकैकमुत्पन्नादिकालत्रयेण यथा त्रैकाल्यं प्रतिपद्यते तथा विगच्छदादिकालत्रयेणाप्युत्पादादिरेकस्त्रैकाल्यं प्रतिपद्यते । तथाहि-यथा यद् यदैवोत्पद्यते तत् तदैवोत्पन्नम् उत्पत्स्यते च । यद् यदैवोत्पन्नं तत् तदैव उत्पद्यते उत्पत्स्यते च । यद् यदैवोत्पत्स्यते तत् तदैवोत्पद्यते उत्पन्नं च । तथा, तदेव तदैव यदुत्पद्यते तत् तदैव विगतं विगच्छद् विगमिष्यञ्च । तथा, यदेव यदैवोत्पन्नं तदेव तदैव विगतं विगच्छद् विगमिष्यञ्च । तथा, यदेव यदैवोत्पत्स्यते तदेव तदैव विगतं विगच्छद् विगमिष्यञ्च । एवं विगमोऽपि त्रिकाल उत्पादादिना दर्शनीयः, तथा स्थित्याऽपि त्रिकाल एव सप्रपञ्चः प्रदर्शनीयः । एवं स्थितिरपि उत्पाद-विनाशाभ्यां सप्रपञ्चाभ्यामेकैकाभ्यां त्रिकाला प्रदर्शनीयेति द्रव्यमन्योन्यात्मकतथाभूतकालत्रयात्मकोत्पाद-विनाश-स्थित्यात्मकं प्रज्ञापयंस्त्रिकालविषयप्रादुर्भवद्धर्माधारतया तद् विशिनष्टि । अनेन प्रकारेण त्रिकालविषयं द्रव्यरूपं प्रतिपादितं भवति; अन्यथा द्रव्यस्याभावात् तद्वचनस्य मिथ्यात्वप्रसक्तिरिति भावः
।।३७।। -: व्याख्याप्रज्ञप्तौ :पू.आ. अभयदेवसूरिकृतटीकायाम्, श. १, उ. १, सू. ८ एतत्सूत्रसंवादिसिद्धसेनाचार्योऽप्याह
“उप्पज्जमाणकालं उप्पण्णं ति विगयं विगच्छंतं ।
दवियं पण्णवयंतो तिकालविसयं विसेसेइ ।।१।।” इति, 'उत्पद्यमानकाल'मित्यनेनाद्यसमयादारभ्योत्पत्त्यन्तसमयं यावदुत्पद्यमानत्वस्येष्टत्वाद्वर्त्तमानभविष्यत्कालविषयं द्रव्यमुक्तम्, उत्पन्नमित्यनेन त्वतीतकालविषयम्, एवं विगतं विगच्छदित्यनेनापीति, ततप्टोत्पद्यमानादि प्रज्ञापयन् स भगवान् द्रव्यं विशेषयति, कथम् ?, त्रिकालविषयं यथा भवतीति संवादगाथार्थः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org