________________
जयन्तीप्रकरणवृत्तिः । गाथा २॥३ हस्ताक्षमालामणिसाम्यभाजः, सूत्रानुगानुज्जवलपूर्णवृत्तान् । साधूनिमान्प्रापयतु क्षणेन, गीर्देवताऽसौ श्रुतसिन्धुपारम् ॥५॥ प्रत्याशं प्रसरत्प्रभापरिगतो यत्पद्महस्तोऽरुणो, यद्दोषापगमं करोति परितस्तत्सत्यमाभासते । आश्चर्यं तु मुनीन्दुतारककविज्योति:प्रकाशोदयं, धत्ते यत्कुमुदं प्रकाश्य सहसा सौरभ्यलक्ष्म्यास्पदम् ॥६॥ श्रीमानतुङ्गसूरीस्तान् जाड्ये सूर्यानुकारिणः । गुरुन्निजान्नुमो नित्यं, श्रीमतो गणधारिणः ॥७॥ श्रीगच्छाधिपमानतुङ्गगुरुभिश्चक्रे परार्थोद्यतैर् , यत् कर्मादिपदार्थसंशयतमः सूर्यप्रभाभासुरम् । तत्त्वज्ञानसुधानिधिप्रकरणं यस्मिन् जयन्तीकृतप्रश्नेषूत्तरदानवाक्यरचना श्रीवर्द्धमानप्रभोः ॥८॥ स्वगुरुबहुमानजलनिधिवेलां दानादिरत्नरमणीयाम् ।
विवृति तस्य विधास्ये सिद्धजयन्तीकथां प्रथयन् ।।९।। 15 तत्राधिकृताऽभीष्टदेवतानमस्कारेण समुन्नतशिरसा मन्दरमन्थानुकारेण निर्मथिते
ऽन्तरायनिरधौ समुल्लसिताभीष्टसिद्धिसुधास्वादतः सुमनसां स्यादजरामरपदोपलम्भ इति । सम्बद्धार्थभणितिभङ्गी गङ्गातरङ्गिणिपरिष्वङ्गपवित्राङ्गतयाऽभिगमनीयता कमनीयता स्यादिति । अभिधेयवत्ताव्यक्ति: मुक्तावलीव श्रोतृपरिषदो हृदयहारितामात्मन्यादधीतेति ।
फलवत्तया च पक्षपातच्छेकतयाऽऽशुकवीनां सहकारवनमिव सानन्दप्रवृत्त्यविकल20 कारणतां प्रपद्यतेति यश:सौरभोद्गारसारसौजन्यादिगुणगणाम्भोजवनप्ररोहरमणीयशिष्ट
समयसर:प्रतिपालनप्रवणपालिप्रबन्धशालिनी चेयं नमस्काराद्यर्थाभिधायिका प्रथमगाथा यथा
नमिय नमिरामरेसरसिरसेहरमणिमऊहविच्छुरियं ।
वीरचरणारविन्दं जयन्तियापगरणं वोच्छं ॥१॥ 25 वक्ष्ये-अभिधास्ये, जयन्त्याः प्रश्नोत्तरव्याकरणं संशयापहरणरभसरस- पल्लवितसंवेगद्रुममञ्जरीकल्पप्रव्रज्याग्रहणनिरभिष्वङ्गतपश्चरणनिर्मलितान्त:करणप्रवृत्तापूर्वक रणक्रमारूढपक्षपकश्रेणिक्षपितघातिकर्मचतुष्टयोल्लसितकेवलज्ञानसम्पदुपलम्भपर्यायपर्याप्तशैलेशीकरणनिरवशेषशेषकर्मनि रणसिद्धिसौख्यस्वीकरणप्रतिपादनरूपं, किं
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org