________________
श्रीपूर्णिमागच्छीय श्रीमानतुङ्गसूरिशिष्यश्रीमलयप्रभसूरिविरचिता
जयन्तीचरित्रगर्भिता जयन्तीप्रकरणवृत्तिः
ॐ नमो वीरजिनाय ||
सर्वाशापरिपूर्णतां वसुचयैः सम्प्रापयन्नन्वहं, जीवाजीवविचारकैरववनप्रोद्बोधचन्द्रोदयः । धर्म्माधर्मविवेकदुग्धजलधेर्वृद्धिं दधानोऽधिकं, स श्रीनाभिनृपाङ्गजो जिनपतिः स्तादिष्टसंसिद्धये ॥१॥ यः कल्याणगिरीन्द्रसुन्दरवपुर्गोत्राधिकामुन्नति, बिभ्राणः शुशुभे ससम्मदसुरैः संसेव्यपादोऽन धर्म्माख्यानविधाननन्दनवने प्रोत्फुल्लपुष्प श्रियो, रेजुर्यद्दशनांशवः स भगवान् वीरो जिनः पातु वः ॥२॥ रागद्वेषविषौषधी कलिमलप्रक्षालनस्वर्द्धनी, मोक्षाध्वप्रतिपन्नभव्यभविनां हस्तस्फुरद्दीपिका । ज्ञानादित्रयरत्नभूमिरखिलव्यामोहनिर्नाशिनी,
ऽन्वहम् ।
यद्वाणी विभवो भवन्तु शिवदास्तेऽन्येऽपि तीर्थेश्वराः ||३|| यत्प्रज्ञाप्रसरेऽतिशायिनी तथा प्रालेयशैलोज्जवले, जैनी गौरचरत् त्रिपद्यपि यथा सद्य पदैः कोटिशः । अङ्गोपाङ्गमहोदया समभवत् त्रैलोक्यसञ्चारिणी, वन्द्योऽसौ गणभृज्जगत्त्रयगुरुर्नाम्नेन्द्रभूतिः सताम् ॥४॥
Jain Education International 2010_02
For Private & Personal Use Only
5
10
15
20
www.jainelibrary.org