SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३१६ जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६ ___ जिनप्रवचनक्षीरसागरावगाहव्यासक्तिविवेककौस्तुभगभस्तिस्तोमप्रकाश्यमानहृदयभोगैः हृषीकेशैः परमर्षिभिः प्रतिपाद्यते मायामृषापि प्रकर्षप्राप्तं महापापस्थानं, अतः स मायामृषावादो मुमुक्षुभिक्षुवेषधारितया, निसर्गसिद्धशरीरकृशतया, दुष्कर्मेन्धनदहन कृशानुप्रतिमतपश्चरणकरणप्रख्यातिकारितया, विप्रलब्धभक्तिभाजनमहाजनद्रव्यापहारितया 5 खरतरोषरक्षितिरिवाऽप्रभवः सुकृतबीजाङ्कुराणां, पातालमिवावासस्थानं महापापासुराणां, क्षेत्रमिव क्षत्रप्रदानाद्य(ऽवम)क्षत्राणां, सृष्टिरिव प्रथमा दुरन्तदुःखदानसत्राणां, केदारभूमिरिव विषादविषमविषकन्दलानां, अग्रानीकमिव महामोहमहीप्रतिदलानां, चाणक्यबुद्धिरिव कूटयन्त्राणां, गर्हास्थानं सर्वास्तिकवादितन्त्राणाम्, अनया हि विप्रलब्धा मुग्घाः प्राणिनः सत्यसङ्कल्पेऽपि विशुद्धब्रह्मचारिणि कलिमलक्षालनगङ्गावारिणि तेजस्विनि 10 तपस्विनि न विश्वसन्ति । यत: वियसियपउमे न विससइ तारयपडिबिम्बसंकिरो भमरो । इयरजणविप्पलंभे सुयणे वि जणो न पत्तियइ ॥१॥ इहलोकेऽप्यनेन त्रिगाममध्यवासिकूटक्षपकोऽघोरशिव इव पापतः प्रकटीभूतदम्भः प्राणी 15 प्राप्नोति विचित्रां विडम्बनाम् । तथाहि5 उज्जेणीनयरीए रिद्धीए सग्गपाडिसिद्धीए । ससिमूलसूरमंगलनिवासपुहवीपसिद्धीए ॥१॥ आसि य तत्थ माहणपुत्तो दोसाण मन्दिरं कूडो । नामेणाऽघोरसिवो जणोवतावी हुयासो व्व ॥२॥ माइन्दजालकूडप्पओगमोहन्धलो य दव्वाइं । अवहरइ तेण नयरीजणेण विन्नायतत्तेण ॥३॥ निव्वासिओ दुरप्पा गच्छइ देसन्तरं मिलइ तत्थ । विविहविडाणं जम्हा सरिसा सरिसेहि रज्जंति ॥४॥ 25 उक्तं च "मृगा मृगैः संगमनुव्रजन्ति गावश्च गोभिः तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः समानशीलव्यसनेषु सख्यम्" ॥१॥ [ ] 20 Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002561
Book TitleJayantiprakaranvrutti
Original Sutra AuthorMalayprabhsuri
AuthorChandanbalashreeji
PublisherShrutgyan Prasarak Sabha
Publication Year2008
Total Pages462
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy