________________
२७९
जयन्तीप्रकरणवृत्तिः । गाथा ४।५।६
तीए वुत्ता एवं पणमित्ता माहणा पसायन्ति । जीयन्ति तओ बडुया उम्मीलियलोयणा सिग्धं ॥८७॥ फासुयदाणं वियरइ मुणिस्स भद्दा वि परमभत्तीए । वायन्ति दुन्दुहिओ जक्खा गयणम्मि तो तुट्ठा ॥८८॥ घोसन्ति अहो दाणं पत्तं सुद्धं अहो परा भत्ती । गन्धोदयकुसुमेहिं हिरन्नवुटुिं सह मुयन्ति ।।८९॥ दिद्वेण अइसएण जिणिन्दधम्मम्मि पाणिणो बहवे । अणुरत्ता हुन्ति तओ विहरइ य मुणी वि अन्नत्थ ॥१०॥ कलहे पावट्ठाणे वनॊतो जइवि पुन्नमाहप्पा । एस मुणी गुणरासी तो किं अन्नो वि न तह होइ ? ॥९१।। तम्हा वज्जेयव्वो कलहो कन्दो अणत्थवल्लीए । इहलोए दोहग्गं परलोए दुग्गइं देइ ॥९२॥
कलहकथानकं समाप्तम् ॥
10
$ तथा सरलतानुसन्धानसावधाने सर्वोपाधिविशुद्धधर्मकलापरिज्ञानतः समग्रधर्मज्ञचूडामणौ अर्जुन इव परस्मिन् क्रूरकर्मकौरवकैरववनप्रबोधप्रतिपन्थिनि प्रभाकरे 15 अकृतस्यापि कृतस्य यदध्यारोपणं, तदभ्याख्यानमपि महापापस्थानमित्युपदिशन्ति सन्तः, तद्धि-परद्रोहद्रुमखण्डप्ररोहद्रढमूलबन्धबान्धवतया सकलजनासुकृततया जलधिनिर्मथनमाधवतया परमहिमम्लानज्ञानपद्माकरतया ईर्ष्याशल्यवितुद्यमानमनःप्रसरतया अतुच्छमच्छच्छिन्नसत्पक्षतया द्विजत्वेऽपि दिव्यगत्ययोग्यतया दुर्गतिगामित्वमेवात्मनः प्रकटयति, किञ्च-अभ्याख्यानदानतः प्रेत्यानेकशः संपनीपद्यते अकृतपापस्यापि जडाशयस्य 20 प्राणिनः कलङ्कपङ्कोपलेपः । यतः
"वहमारणअब्भक्खदाणपरधणविलोवणाईण ।
सव्वजहन्नो उदओ दसगुणिओ एक्कसि कयाणं" ॥१॥ [ उप.मा./गा.१७७] "तिव्वयरे उ पओसे सयगुणिओ सयसहस्सकोडिगुणो ।
कोडाकोडीगुणो वा होज्ज विवागो बहुतरो वा" ॥२॥ [ उप.मा./गा.१७८ ] 25 यः पुनरभ्याख्याने पीड्यमानोऽपीक्षुदण्ड इव निसर्गसिद्धमाधुर्यो न क्षारभावमुद्वहति,
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org